________________
-
[सर्ग ९ श्लो० ० ६९-७२
हीरसौभाग्यम्
बन्धुकवद्वन्धककुसुमानीव 'विपोहरिया' इति लोकप्रसिद्धानि । बन्धुरैः शोणिम्ना सुन्दरैः अन्नादुभानोर्भवैरुत्पन्नैः प्रभाभरैः कान्तिकलापैर्दिगङ्गना आशावशा भान्ति विराजन्ते । उत्प्रेक्ष्यन्ते-कान्तस्य स्वभर्तुः सूर्यस्यागमे समागमनसमये । 'दिशो हरिदिभहरितामि घेश्वरः इति रघुवंशे । धृतानि परिहितान्याताम्राणि सामस्त्येन शोणान्यम्बराणि वासांसि याभिः एतादृश्य इव ॥ इत्यरुणतरुणप्रभा ॥
કલેકાર્થ બંધુક નામનાં લાલ પુષ્પની જેમ મનોહર સૂર્યની લાલ કાન્તિનાં સમુહથી પૂર્વ દિશારૂપી શ્રી શેભે છે. તે જાણે પિતાના પતિ સૂર્યના સમાગમ માટે ધારણ કરેલાં લાલ વસ્ત્રો ન હોય ! ૬લા
द्रमद्रोणिषु संचिन्वन्नुल्लसन्पल्लवानिव । तन्वन्निव तटाकेषु निन्दन्कोकनदश्रियम् ॥७०॥ कुर्वन्निव गिरेः श्रृङ्गे गैरिकावनिविभ्रमम् । ताम्बूलश्रियमास्येषु दिग्वधूनां दिशन्निव ॥७१॥ सीमन्तेषु मृगाक्षीणां सिन्दूर पूरयन्निव ।
प्रातः प्रस्तारयन्भाति भानुमान्भानुविभ्रमम् ॥७२॥ भानुमान किरणमाली सूर्यः प्रातः वासरवदने भानूनां निजाभकप्रभाणां विभ्रम शोभां विलासं वा प्रस्तारयन् विस्तारयन् भाति विभ्राजते । द्रमाणां तरूणां द्रोणिषु । 'द्रोणी द्रोणिरिदन्तः श्रेण्यामपि इत्यनेकार्थावचूणिः। भानुविभ्रम विस्तारयन्निति सर्वत्र योज्यते । उत्प्रेक्ष्यते- उल्लसतः स्फुरतः विकसतो वा पल्लवान्प्रवालान्संचिन्वन्नुपचय बाहुल्य प्रापयन्निव । तथा तटाकेषु पदमाकरेषु । उत्प्रेक्ष्य-कोकनदानां रक्तोत्पलाना श्रिय लक्ष्मी तन्वन्विस्तारयन्निव बहूनि कोकनदानि कुर्वन्निव । तथा । गिरेः पर्वतस्य श्रृङगे शिखरे । उत्प्रेक्ष्यते--गैरिकावने रक्तधातुभूमेर्विभ्रम भ्रान्ति कुर्वन्निव विरचयन्निव । पुनर्दिग्वधूनां दशदिगङ्गनानां आस्येसु वदनेषु । उत्प्रेक्ष्यते-ताम्बूलश्रिय दिशन्ददान इव । ताम्बूले चर्विते वाधरादौ रक्तिमा भवेत् । पुनर्मू गाक्षीणां त्रस्तसारङ्गीदृशां सीमन्तेषु केशपाशवम॑सु उत्प्रेक्ष्यते-सिन्दूरं श्रृङ्गारभूषण पूरयन् सिन्दूरेण भरन्निव इति लोहितलक्ष्मीविलसितं सिद्धान्ते । 'कुकुमखवियच्च जीवलोपे' इति सूर्यस्याभ्युदयसमये कान्तिरप्यतीव रक्ता स्यादिति । त्रिभिर्विशेषकम् ॥ इति सूर्यप्रभाप्रस्तारः॥