________________
हीरसौभाग्यम्
[सर्ग ९ श्लो० ६७-६९
निजानुरागिणीर्वीक्ष्य दारान्स्मेरसरोजिनीः । किमुद्गीर्णोऽरुणज्योतीरागो राजीवबन्धुना ॥६७॥
राजीवबन्धुना अरविन्दसुहृदा सूर्येण अरुणमतिरक्तं यज्ज्योतिः कान्तिः एव रागो हृदयोदयदनुरागोऽनुरतिरुवीर्णः प्रकटीभूतः । किं कृत्वा । स्मेरा विकसिताननसरोजाः सरोजिनीः पद्मिनीर्दारान् निजप्रेयसी. । निजे आत्मनि विषयेऽनुरागोऽस्त्यासामित्यनुरागि ण्यस्ताः सानुरागा वीक्ष्य व्यालोक्य ॥ ..
લેકાર્થ વિકસિત કમલિનીને પિતાની તરફ અનુરાગિણી જોઈને સૂર્યે જાણે અત્યંત લાલ કાન્તિરૂપ પિતાને અનુરાગ પ્રગટ કર્યો ન હોય !ાછા
हरिव्यापादितध्वान्तकुम्भिकुम्भसमुद्भवैः ।
रक्तै रक्तीकृता शके प्रभा भाति स्म भानवी ॥६८॥ भानोरियं भानवी सूर्यसंबन्धिनी प्रभा अर्थात्कुमारीकान्ति ति स्म शुशुभे । तत्राहमेवं शके वितर्कयामि । हरिणा भानुना केसरिणा च व्यापादिता कराग्रनिशितनिख्रिशोधुरधाराविदारिता ध्वान्ता अन्धकारा एव कुम्भिनः श्यामवर्णत्वादन्धकारसाधारणा वारणाः । यत उक्तम्--'दूरतया स्थूलतया श्यामतया गन्धलोलुपैर्मधुपैः । धावितमिभराजधिया तत्त्वधिया चाग्रतो महिषः ॥ इति । प्रायोऽधुना कृष्णवर्ण एव दन्तिनो दृश्यन्ते । तेषां कुम्भेभ्यः शिरःपिण्डेभ्य उद्भव उत्पत्तियेषां तादृशै रक्तै रुधिरै रक्तीकृता शोणा निर्मितेव ॥
કલેકાર્થ સૂર્યની લાલ કાન્તિથી આકાશ શોભે છે. જાણે મને લાગે છે કે સૂર્યરૂપી સિંહના તીણ કિરણરૂપ નખેથી વિદારણ કરાયેલા અંધકારરૂપી હાથીઓનાં કુંભસ્થલમાંથી નીકળતા રૂધિરવડે જાણે લાલ બન્યું ન હોય ! (દૂરતા, સ્થલતા, એને શ્યામતાથી સમાન હોવાથી મજલનાં લુપી ભ્રમરો હાથી સમજીને પાડા તરફ દેડે છે. આ કારણે અંધકારને આપેલી હાથીની ઉપમા યુકિતયુક્ત છે ) in૬૮
कान्तागमे धृतातानाम्बरा इव दिगङ्गनाः। बन्धूकबन्धुरैर्बनभवैर्भान्ति प्रभाभरैः ॥६९॥