________________
सर्ग ९ श्लो ० ६५-६६]
हीरसौभाग्यम्
२९
विरञ्चिना ब्रह्मणा यमुनायाः कालिन्द्या बीजी जनकः । 'वप्ता तु जनकस्तातो बीजी जनयिता पिता' इति हैम्याम् । 'सहस्ररश्मियमुनाकृतान्तजनकः प्रद्योतनस्तापनः' 'यगुना यमभगिनी कालिकन्दी सूर्यजा यमी' इति द्वितयमपि हैम्याम् । उत्प्रेक्ष्यतेजीवातुर्जीवनौषधमिव व्यरचि विहितम् । केषां कण्ठपीठ्यां गलकन्दले । जयत्युदरनिःसरद्वरसराजपीठीपठञ्चतुर्मुखमुखावलीरचितसामनामस्तुतिः' इति चम्पूकथायाम् । 'वंशिकवक्रोष्ठिककान्यकुब्जपीठानि' इति लिङ्गानुशासने स्त्रीलीबलिङ्गयोः । पीठ पीठी च । लुठन्तः वियोगातिव्यथाव्याकुलतया निर्गमनायागच्छन्तः प्राणा असवो येषाम् । कण्ठगतजीवितानामित्यर्थः । तादृशानां रथाङ्ग इति आह्वा नाम येषाम् । 'चक्रवाको रथाङ्गाहः कोको द्वन्द्रचरोऽपि च' इति हैम्यां रथाङ्गशब्देन चक्रमुच्यते तन्नाम्नां विहायसां पक्षिणां चक्रवाकविहङ्गमानां जीवनस्य भेषजमिव । 'विहायो व्योमपक्षिणा' इत्यनेकार्थः ।। इति सूर्योदयः ॥
શ્લોકાથ વિચગની વ્યથાથી વ્યાકુલ બનવાથી જેના પ્રાણ કંઠે આવી ગયા છે તેવા ચક્રવાક નામના પક્ષીઓ માટે બ્રહ્માએ જાણે કાલિન્દી–પિતા સૂર્યરૂપ જીવન ઔષધ બનાવ્યું नाय ! ॥६५
शोणी दीप्तिर्दिनेशस्याधात्कुमारितरा श्रियम् । कोकैर्दु :खानलज्वाला किमुनीर्णाः सुहृत्पुरः ॥६६॥
दिनेशस्य दिवसनायकस्य भानोः दीप्ति: कान्तिः श्रियं शोभामधाद्धरते स्म । किंभूता । कुमारितरा बाला । प्रथमोत्पन्ना । अतिशयेन कुमारी कुमारितरा । 'हस्वो वा' इति सारस्वतसूत्रेण तरतमयोः परयोः सतोर्वा ह्रस्वः । अत एव किंभूता । शोणी अत्यन्तारुणा । 'रचयति रुचिः शोणीमेतां कुमारितरा रवेः' इति नैषधे । उत्प्रेक्ष्यते-- कोकैश्चक्नवाकैविहंगमैः सुहृदः स्वमित्रस्य भास्करस्य पुरोऽने दुःखरूपानलस्य सकलशर्वरीपरस्परवियोगसंजातासाततीब्रज्वलनज्वाला इवोद्गीर्णाः हृदयवदनाबहिरुद्वान्ता इव ॥
લોકાર્થ
સૂર્યની લાલકાન્તિ નવપ્રસૂતા બાલિકાની જેમ શોભા ધારણ કરે છે. તે જાણે ચક્રવાકેએ પોતાના મિત્રની આગળ વિરહાનલની પ્રચંડ જવાલા પ્રગટ કરી नाय! ॥६॥