________________
२८
हीरसौभाग्यम्
[सर्ग ९ श्लो० ६३-६५
बालारुणोऽर्भकभानुमाली व्यभाद्विभासते स्म । 'जरीजृम्भडिम्भघुमणिविलस-' इति खण्डप्रशस्तौ । तथा 'विश्वश्यापि तमो हिनस्ति तरुणिर्बालोऽपि कल्पाइकुरो दारिद्राणि गजावली हरिशिशुः' इति श्रीचिन्तामणिपार्श्वनाथस्तुतौ । उत्प्रेक्ष्यते-प्रातः प्रभातसमये निखेलता स्वतन्त्र तटाघातादिक्रीडां कुर्वता अभ्रमूवल्लभेन अभ्रमूनामा हस्तिनी तस्या भर्ना । अभ्रमूशद्वो दीर्घोऽपि दृश्यते-यथा 'गजानामभ्रमूपतिः' इति काव्यकल्पलतायाम् । तथा 'अभ्रमूवल्लभारूढ़ निशाशेषे कदाचन । स्वप्ने महेन्द्रमद्राक्षीत्पृथा पृथुमनोरथा ॥ इति पाण्डवचरित्रेऽपि । ऐरावणवारणेन प्राग्गिरेः पूर्वपर्वतस्य गैरिक्रो धातुमयो गण्डोपलः स्थूलपाषाण इवोत्खातः उत्पाघ क्षिप्तः इव । ऐरावतदन्तावलस्य पूर्वस्या दिशो दिग्गजत्वात्माग्गिरेरिति कथनं युक्तिमत् ॥
લોકાઈ
જાણે પ્રભાત સમયે છાપૂર્વક કીડા કરતા રાવણ હાથીએ ઉખાડી નાંખેલી પૂવોચલ પર્વતને લાલ માટીને સ્થૂલ પાષણને ટુકડે ન હોય, તે બાલસૂર્ય શોભે છે. દર
द्यावाभूमी पराभूष्णु भूच्छायामरवैरिणम् । भेत्त' व्यमोची चण्डांशु चक्रं किं चक्रपाणिना ॥६॥
चक्रपाणिना नारायणेन । उत्प्रेक्ष्यते-चण्डास्तीक्ष्णा रुद्रा वा अंशवः किरणा यस्य सूर्यरूपं वा । अथ वा चण्डं भयकारि अंशु शीघ्रगामि । 'अंशः सूत्रादिसूक्ष्मांशे किरणे चण्डदीधितौ' इत्यनेकार्थः । शीघ्रगामिनि वाच्यलिङ्गः । शैक्रयेऽपि तत्र क्लीबम् । चक्र' सुदर्शन नाम स्वरथाङ्ग व्यमोचि मुक्तमिव । किं कर्तुम् । धावाभूम्योर्दिवस्पृथिव्योर्नभोभुवोः पराभूष्णुमभिभवनशीलं भूच्छायमन्धकारमेवामरवैरिणं दानवं भेत्तुं विदारयितुं हन्तुम् ॥
pલેકાર્થ
આકાશ અને પૃથ્વીને પરાભવ કરતા અંધકારરૂપી દૈત્યને નાશ કરવા માટે વિષ્ણુએ જાણે પ્રચંડ કિરણવાળું સુદર્શનચક્ર છોડયું ન હોય ! તે સૂર્ય शाले छे, ॥१४॥
कण्ठपीठीलुठत्प्राणरथाङ्गाहविहायसाम् । जीवातुर्यमुनाबीजी व्यरचीव विरचिना ॥६५॥