________________
४०४
हीरसौभाग्यम्
[सर्ग १३ श्लो० १३५-१३६
हिंसादये निर्दिशती विरोधिधर्मे मिथः स्वीयतदीयशास्त्रे । क्षीराम्भसोर्हसमिवाधिगत्य तयोविवेक्तारमसौ पुनस्तम् ॥ १३५ ॥
पुपोष भाषां स्वमुखेन शेखः पुरो विनेयायितवृत्तिरस्थ । नतिं दधानो विनयादधीतां पाणौ प्रणीतात्सुगुणादिवास्त्रात् ॥ १३६ ॥
असौ स्वसद्मनि सरेरानेता शेखः अस्य हीरसुरेः पुरोऽग्रे स्वमुखेन निजवदनेन कृत्वा भाषां वाणी पुपोष पुष्णाति स्म पुष्टां चकार । उवाचेत्यर्थः । किंभूतः । विनेयायिता विनेयोऽन्तेवासी शिष्यस्तद्वदाचरिता वृत्तिर्मनोवाक्कायव्यापारो यस्य । अत एव किं कुर्वाणः । नतिं नम्रतां विनयनेन प्रवीभाव दधानो बिभ्राणः । उत्प्रेक्ष्यते-पाणौ रणशूरतया स्वहस्ते प्रणीतात्कृतात् । गृहीतादित्यर्थः। तथा सुगुणात् सु शोभना जगजनमनोरञ्जका धैयौदार्यगाम्भीर्यार्जवमार्दवादिमा गुणा मनोज्ञो ढंकारववित्रासितानेकशात्रवो गुणो मौर्वी च यस्मिन् तादृशादत्रात्कोदण्डात् । 'धनुश्चापोऽस्त्रमिष्वासः कोदण्ड धन्व कार्मुकम्' इति हैम्याम् । अधीतां पठितामिव । यदुक्तम्-'नमणी खमणी बहुगुणी विहुपखिवंशविशुद्ध । पुण्यविना न विपामिइ करिधणुहीपरिभज ॥ इति सूक्ते । तथा 'शश्वबाणद्वितीयेन नमदाकारधारिणा । धनुषेव गुणाढयेन निःशेषो रन्जितो जनः ॥' इति चम्पूकथायामपि । किं कृत्वा । मिथः परस्परं विरुध्येते इत्येवंशीलौ धौं स्वभावौ ययोः । 'धर्मों यमोपमापुण्यस्वभावाचारधन्वसु । संसर्गेऽहत्यहिसादौ न्यायोपनिषदोरपि ॥' इत्यनेकार्थः। तथा हिंसा निमन्तुजन्तुव्यापादन तथा दया जगजीवानां स्वप्राणबद्रक्षण ते निर्दिशती प्ररूपयति स्वीय यवनझातिसंबन्धि तथा तदीय सरिशासनसंबन्धि च उभे शास्त्रे अधिगत्य विदित्वा । पुनरपरार्थान्तरे । पुनद्वितीयवारमुच्यते । वा इति पुनःशब्दार्थः । क्षीराम्भसोर्दुग्धजलयोर्ह सं सितच्छदमिव तयोहिंसादयाशास्त्रयोविवेक्तारम् इद सम्यक्प्ररूपणमिदमसमीचीन प्ररूपण च, अय स्वर्गावपर्गसाधकः पन्थाः अयं च दुर्गदुर्गप्तिमार्गः इय च निःस्पृहाणामुक्तिः एषा च रसनादिरसलम्पटानामुक्तिरित्यादि विवेचनकर्तारं तं वशीन्द्र जितेन्द्रियाणां पुरंदर च अधिगत्य विज्ञाय मनसि निश्चित्य ॥
શ્લેકાર્થ
પરસ્પર વિરોધી એવા હિંસા અને ધ્યાની પ્રરુષણા કરનારા સ્વશાસ્ત્ર અને પરશાસ્ત્ર (જૈનશાસ્ત્ર અને કુરાન શાસ્ત્ર) માં ક્ષીર અને નીરને ભેદ કરનારા હંસ જેવા આરાર્યદેવને જાણીને, શિષ્યવૃત્તિ ધારણ કરનારા અને હાથમાં ધારણ કરાએલા દેર સહિત ધનુષ્ય