SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ सर्ग १३ श्लो ० १३३-१३४ ] हीरसौभाग्यम् ४०३ मुनीनां वृषा वासवः सूरिर्महीपालस्य पतिसाहेगुहस्य प्रासादस्योपकण्ठे संनिधाने अस्याबलफैजनानः शेखस्य गेहं भवन पदारविन्दैश्चरणकमलैः । पूज्यत्वाद्बहुवचनम् । पवित्रयामास पावनीकुरुते स्म । अस्य किं चिकीर्षमाणस्य । शुश्रूषमाणस्य सूरिसेवां विधातुमीहमानस्य । कथम् । विशिष्य विशेषप्रकारेण स्वसेव्याधिक्येन। कस्येव । शिष्यस्येव । यथा विनेयकः गुरोः स्वस्याचार्यस्योपाध्यायस्य य रत्नाधिकस्य वा विशिष्य सर्वान्तेवासिवर्गेभ्योऽत्यभ्यधिकां परिचर्या विधित्सति स्वयं सुशिष्यत्वात्स्व. गर्गापवर्गादिसुखसाधकत्वाच्च ।। इति साहिसंदिष्टवचनश्रवणपूर्व शेषगृहगमनम् ॥ શ્લોકાર્થ - જેમ વિનયી શિષ્ય આચાર્યની વિશિષ્ઠ પ્રકારની સેવા કરવાની ઈચ્છા કરે, તેમ આચાર્ય દેવની વિશિષ્ટ પ્રકારની શુશ્રષા કરવાને ઈચ્છતા એવા બાદશાહના મહેલની સમીપમાં રહેલા શેખ અબ્દુલ ફૈજના ભવનને આચાર્યદેવે પિતાના ચરણારવિંદથી પવિત્ર કર્યું. ૧૩૩ છે संदेहसंदोहमहाम्बुवाहमहाबलेन बतिवासवेन । बोद्धा श्रुतेः श्राद्ध इव स्वधाम्नि धा स गोष्ठीमनुतिष्ठति स्म ॥ १३४ ॥ स शेखः स्वधाग्नि निजनिकेतने वतिनां महाव्रतभृतां यतीनां वासवेन मघोना सह धो धर्मसंबन्धिनीं गोष्ठी वार्तामनुतिष्ठति स्म कृतवान् । किंभूतेन व्रतिवासवेन । संदेहाः संशयाः शास्त्रविचारणोद्भवाः मानसिका वा तेषां संदोहाः समूहा एव महान्तो घोराज्ञानान्धकर्तारः अम्बुवाहाः घनाघनाः तेषां विध्वंसने मूलोन्मूलने नामशेखीकरणे महाबलः प्रलयपवनस्तेन । किंलक्षणः शेखः । श्रुतेः शास्त्रस्य बोद्धा अवगन्ता प्रवीणः । यदुक्तम्'पात्रे त्यागी गुणे रागी भोगी परिजनैः समम् । शास्त्रे बोद्धा रणे योद्धा पञ्चाङ्गः पुरुषः स्मृतः ॥ इति सूक्ते । क इव । श्राद्ध इव । यथा कश्चिदागमावबोधक उपासक्रः केनापि सरिणा सम धा गोष्ठी विधत्ते ॥ પ્લેકાર્થ સંશયોના સમૂહરૂપી ઘેર અંધકારને કરનારા મેઘાને નાશ કરવા માટે પ્રલયકાળને પવન સમાન સૂરીન્દ્રની સાથે શ્રાવકની જેમ પિતાના ઘરમાં શાસ્ત્રજ્ઞ શેખે धभगाही ४३१. ॥ १३४ ॥
SR No.005968
Book TitleHeersaubhagya Mahakavyam Part 02
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1977
Total Pages482
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy