SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ ४०२ हीरसौभाग्यम् [सर्ग १३ श्लो० १३१-१३३ तदास्पदे निदर्शनं नैषधमभ्यषेचयत् ॥' इति नैषधे । तस्य साहेरुक्तीनां युक्तौ योजनायां चातुर्योदाररचनायामेन शेख प्रबन्धार प्रबन्धो विस्तारः तस्य कर्तार बुबुधे विवेद जानीते स्म । एन किंभूतम् । निरस्तो निवारितो मुक्तः प्रतिबन्धृभावः प्रतिबन्धकतादूषकत्वम् । 'विहंगमद्भाषितसूत्रपद्धतौ प्रबन्धृतास्तु प्रतिबन्धृता न ते' इत्यपि नैषधे । कमिव । प्रवीणधुरीणमिव । यथा विद्ववृन्दारकं सनिदर्शनायां श्रुतौ शास्त्रे निरस्तम् इदं च शास्त्रविरुद्धम् । इद तु दूषणमित्यादिप्रतिबन्धककर्तृत्व दूषणोदभावकत्व विरोधभाषित्व येन तादृशं प्रबन्धार दूषणनिराकरणनानार्थयुक्तिविशेषोल्लेखप्रकाशका. रिण कश्चिद्विपश्चिबुध्यते । શ્લેકાર્થ વિદ્વાન પુરુષોમાં ઈદ્ર સમાન આચાર્યદેવે કથાકારની જેમ દુરાગ્રહ રહિત અને ચતુર ચુડામણિ શેખને દ્રષ્ટાંત સહિત અને યુકિતયુક્ત એવા જૈન શાસ્ત્રના on.२ ४. ॥ १३०॥ निशम्य तद्भाषितमेष धात्रीसहस्रनेत्रस्य ततो व्रतीन्द्रः । इयेष शेखस्य गृहे प्रयातुं सुरेन्द्रधाम्नीव सुपर्वसूरिः ॥ १३२ ॥ ततः शेखवाक्यश्रवणानन्तरमेष हीरविजयनामा व्रतीन्द्रः श्रमणशक्रः सूरिः शेखस्य गृहे मन्दिरे प्रयातु गन्तुमियेष वाञ्छति स्म । किं कृत्वा । धात्रीसहस्रनेत्रस्य पृथिवीपुरंदरस्याकब्बरस्य तत्पूर्वोक्त भाषित कथितभू । वचनमित्यर्थः । निशम्याकर्ण्य । क इव कस्मिन् गन्तुम् । सुपर्वसरिरिव । यथा सुपर्वणां देवानां सरिराचार्य: पाठयिता वाच. स्पतिः सुरेन्द्रस्य नाकिनायकस्य धाग्निः वैजयन्तनामनि प्रासादे गन्तुमिच्छति ॥ શ્લેકાર્થ જેમ દેવના આચાર્ય બૃહસ્પતિ ઇંદ્રના “વૈજયંત” નામના પ્રાસાદમાં જવાને છે, તેમ આચાર્ય દેવે શેખ દ્વારા કહેવાએલા અકબર બાદશાહને સંદેશ સાંભળીને, શેખના ઘેર જવાની ઈચ્છા કરી. છે ૧૩૨ છે शुश्रूषमाणस्य विशिष्य शिष्यस्येवास्य शेखस्य वृषा मुनीनाम् । गेहं महीपालगृहोपकण्ठे पवित्रयामास पदारविन्दैः ॥ १३३ ॥
SR No.005968
Book TitleHeersaubhagya Mahakavyam Part 02
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1977
Total Pages482
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size9 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy