________________
सर्ग १३ श्लो० १२६-१२७]
हीरसौभाग्यम्
३९९
अमन्तुजन्तुव्ययपातकेनास्पृश्यां प्रणीतां धरणीं स्वधाम्नः। शेख क्षणं तेन पवित्रय त्वं गुरोः पदाम्भोजरजोमृतेन ॥ १२६ ॥
हे शेख, तेन कारणेन येनाहं कार्यान्तरेण गृहान्तजिंगमिषामि ततोऽधुना तदाकारणानवसरः तेन हेतुना त्वक्षण क्षणमात्र मुहूर्त यावद्गुरोह-रसूरेः पदाम्भोजयोश्चरणारविन्दयोर्यद्रजः पलागस्तदेवामृतं सुधारसः । त्वत्पादपङ्कजरजोमृतदिग्धदेहाः' इति भक्तामरस्तववचनात् । अथ वा अमृतं पानीये तेन कृत्वा स्वस्यात्मनो धाम्नो वासगृहस्य धरणी भूमी पवित्रय पावनीकुरु । पावित्र्यं प्रक्षालनात् । प्रक्षालन तु पानीयेनैव स्यात् इति । किंलक्षणां धरणीम् । अमन्तूनां निरपराधानां जन्तूनां प्राणिनां व्ययो विनाशो घातस्तस्य पातकेन पापेन कृत्वा अस्पृश्यां स्प्रष्टुमप्ययोग्यां प्रणीतां कृताम् । अथ च योऽस्पृश्यः कथंचिजातः स लोकव्यवहाराद्वारिप्रक्षालनादेव स्पृश्यो भवेदिति रीतिः । इति गर्भोत्प्रेक्षा ॥
લેકાર્થ
હે શેખ, કાર્યાતર હવાથી હમણાં હું મહેલમાં જઈશ; માટે હમણાં એક ક્ષણમાત્ર ગુરુનાં ચરણકમલની રજથી નિરપરાધી છના ઘાત વડે અસ્પૃશ્ય બનેલી એવી આપણી ગૃહભૂમિને પવિત્ર બનાવે.” મે ૧૨૬ છે
इदं निगद्याब्धिगभीरघोष जोष' मुखे भूमिधवो विधाय । जगाम गेहं गृहिणीसनाथं विद्युद्विलासीव गभस्तिरभ्रम् ॥ १२७ ॥
___ भूमिधवः पृथ्वीपतिः अकबरपातिसाहिः गृहिणीभिः स्वकलत्रैः सनाथं संयुक्त गृह स्वसौधं जगाम गतवान् । क इव । गभस्तिरिव । यथा भानुमान् विद्युद्धिः सौदामिनीभिर्विलसति शोभते इत्येवंशीलमभ्र वर्दलकं 'वादलु' इति प्रसिद्ध मेघ वा गच्छति । किं कृत्वा । इदं पूर्वप्रोक्त शेशपुरो निगद्यालप्य । कथम् । अब्धिवत् समुद्र इव गभीरो मन्द्रो घोषो ध्वनिर्यत्रैवंविधं यथा स्यात्तथा । अकबरसाहेः शब्दस्तु नवहस्तकव्याघ्रवद्गुनारवं कुर्वन्नासीत् ततो घोष इत्युक्तिः । पुनर्मुखे निजवदने जोषं मौनं विधाय कृत्वा । 'तूष्णीं तूष्णोकां जोष च' इति हैम्याम् । तथा 'जोषमासनविशिष्य बभाषे' इति नैषधे ॥ इति सूरिसमागमस्य साहेनिवेदनम् ॥