________________
हीरसौभाग्यम्
[सर्ग १३ श्लो० १२४-१२५
केनेव । अवनिजन्मनेव । यथा वसन्ते ऋतौ मधुसमये संप्राप्ते सति अवनिजन्मना । जातिवाचित्वादेकवचनम् । समस्ततरुसमुदायेन पल्लवकलितेन उपलक्षणात् प्रवालैः कुसुमैः फलैश्च संयुक्तर्जायते ॥
શ્લેકાર્થ
જેમ વસંતત્રતુ પ્રાપ્ત થતાં સર્વે વૃક્ષોને સમુદાય નવપલ્લવિત બને તેમ છે ચતુર ચૂડામણિ સાધુ શિરોમણિ આચાર્યદેવના પદાર્પણથી આજે મારા મને રથે सण थया." ॥ १२४ ॥
द्रक्ष्यामि दिष्टयाद्य मुनीन्द्रचन्द्रमिवानुबिम्ब परमेश्वरस्य । शेखाधुनाहं नियतेर्वशेन किं चास्मि कार्यान्तरचुम्बिचेताः॥ १२५ ॥
हे शेख, दिष्ट्या भाग्येन कृत्वा अद्य विद्यमाने अस्मिन् वासरे एव मुनीन्द्रेषु सर्वेषु सूरिष्वाह्लादकत्वेन चन्द्रमिव चन्द्रम् । अथ वा स्वस्वशाखासिङ्घाटकानां स्वामिना रत्नाधिका मुनीन्द्रास्तेषां मध्ये अधिकं दीप्यमानत्वात् ज्योतिषामिव स्वामित्वाद्वा तेषां चन्द्र इवेति वा तं द्रक्ष्यामि दृग्गोचरीकरिष्यामि । उत्प्रेक्ष्यते-परमेश्वरस्य परमात्मनो बिम्ब प्रतिबिम्ब मूर्तिरिव । जैनमते तु बिम्बशब्देन भगवत्प्रतिमा प्रोच्यते । अथ वा । साक्षात्परमेशितुर्बिम्बमिव मूर्तिरिव । तथा 'संसारसिन्धावनुबिम्बमात्र जागति जाने तव वैरसेनिः । बिम्बानुबिम्बौ तु विहाय धातुर्न जातु दृष्टातिसरूपसृष्टिः ॥' इति नैषधे । परं किं चायं विशेषोऽस्ति । हे शेष, अधुना इदानींतनसमये अहं नियते वस्य वशेनायत्तत्वेन कार्यान्तरं किंचित्कृत्यविशेष चुम्बत्यालिङ्गतीत्येवंशील चेतो मानसं यस्य कार्यान्तरेण व्यग्रमना अस्मि । एतत्कथनं त्वप्रतिबुद्धत्वेन अज्ञाततत्त्वभावेन म्लेच्छत्वेन वा । यद्यास्तिकः स्यात्तदा तु सर्वमपि त्यक्त्वा वन्दत एवेति ॥
લોકાઈ
“હે શેખ, પરમેશ્વરના પ્રતિબિંબની જેમ મુનિમાં ચંદ્રસમાન એવા આચાર્ય દેવને આજે ભાગ્યદયથી દ્રષ્ટિગોચર કરીશ; પરંતુ હમણાં હું કેઈ દૈવવશાત અન્ય કાર્યમાં વ્યગ્રચિત્તવાલે છું.” છે ૧૨૫