________________
हीरसौभाग्यम् [सर्ग १३ श्लो० १२०-१२२
શ્લોકાથ
સફાર કુરાન આદિ સમસ્ત યવનશાસ્ત્રના પારગામી શેખ અબ્દુલ ફેજ' નામના યવના માનનીય ગુરુ જાણે હુમાયુપુત્ર અકબર બાદશાહનું સકુરાયમાન એવું ત્રીજું નેત્ર ન હોય તેવા હતા ! ૧૨૦ છે
सहस्ररश्मेरिव सोमजन्मा समेत्य शेखस्य सवेशदेशे । तत्रेयिवांसं व्रतिनामधीशं तं स्थानसिंहो वदति स्म तस्मै ॥ १२१ ॥
स्थानसिंहाभिधानः श्राद्धः साहेः सामन्तसमानस्तत्र राजद्वारे इयिवांसं समागतं त हीरविजयनामानं वतिनां साधूनामधीशं सरिं तस्मै शेषाय वदति स्म निवेदयामास । किं कृत्वा । शेखस्याबलफैजस्य सवेशदेशे समीपभूभागे स्थाने समेत्यागत्य । क इव । सोमजन्मेव । यथा सोमाच्चन्द्राजन्मोद्भवो यस्य स चन्द्राङ्गजो बुधः सहस्रररश्मेः सूर्यस्य संनिधौ मैत्र्याल्लोके च भानोश्छत्रधरो बुध इत्युच्यते । तच्चाधारवशावासमेति ॥
શ્લોકાથ
જેમ ચંદ્રપુત્ર બુધ મિત્રતાથી સૂર્યની પાસે જાય તેમ રાજમાન્ય એ થાનસિંહ નામને શ્રાવક, આચાર્યદેવને રાજ દ્વારમાં પધારેલા જાણીને શેખ અબદુલ ફૈજની પાસે જઈને નિવેદન કર્યું. ૧૨૧ છે
स श्रेणिकायाभयवन्मृगारिध्वजस्य शेखोऽपि सभां समेत्य । अकब्बरोवीरमणस्य सिंहद्वारे विभोरागमनं जगाद ॥ १२२ ॥
स स्थानसिंहः निवेदितावधारितगुर्वागमनः शेखोऽपि अकबरनामा य उऊरमणो भूमिभर्ता तस्य सिंहद्वारे विभोः सरेरागमनं जगाद भाषते स्म । किं कृत्वा । सभां साहेरास्थानं समेत्य । किंवत् । अभयवत् । यथा अभयकुमारो मृगारिध्वजस्य महावीरदेवस्य राजद्वारे राजगृहनगरबहिारस्थगुणशिलाचैत्यस्थाने श्रेणिकनृपाय निगदति स्म ।।