________________
सर्ग १३ श्लोक ११३-११४]
हीरसौभाग्यम्
विषप्रदोऽस्थास्नु जडाशयश्चेत्यपाचिकीर्षुः स्वमिवापवादम् । तदाम्बुदस्तं ककुदं मुनीनामुपासनागोचरतां निनाय ॥ ११३ ॥
तदा प्रावृट्काले अम्बुदो घनाघनः तमुनीनां श्रमणानां मध्ये ककुदं श्रेष्ठ मुख्यं सूरिम्। 'ककुदं तु प्रधानेऽसे वृषाङके राजलक्ष्मणि' इत्यनेकार्थतिलके । उपासनायाः सेवायाः गोचरतां निनाय प्रापयति स्म । सेवते स्मेत्यर्थः । उत्प्रेक्ष्यते-इत्यमुना प्रकारेण स्वमात्मीयमपवादमयशो जनमध्ये निन्दामपाचिकीर्षुनिराकर्तुमिच्छुरिव । इति किम् । यदयं मेघः विष कालकूट प्रददातीति । तत्त्वतस्तु जलदः । 'विष श्वेडे जले च' इत्यनेकार्थः । तथा 'विषः श्वेडो रसस्तीक्ष्णं गरलौघः' इति हैम्याम् । तथा व्यासषष्टिकमध्ये-'देवराजो मया दृष्टो वारिवारणमस्तके । भक्षयन्नर्कपत्त्राणि विष पीत्वा क्षय गतः ॥' तत्त्वार्थों यथा-हे देवर, मया वारिणां वारण तटाकपालिस्तस्य मस्तके उपरि अजो मेषो वात्कटः दृष्टः । किं कुर्वन् । अर्कस्य अर्कतः 'आकडो' इति प्रसिद्धस्य पत्त्राणि पर्णान् भक्षयन खादन् । ततो विष तटाकजल पीत्वा क्षय गृहं गतः इति । ततो मेघोऽपि विष गरल जल च प्रकर्षणातिशयेन ददातीति विषप्रदः । तथा अस्थास्नु नाप्येकत्र स्थातु शक्तः प्रतिनगरग्रामारामसीमभीमकान्ताराकूपारान् पर्यटनशीलः । अत एवोक्तम्-'क्षारो वारिनिधिः कलङ्ककलितश्चन्द्रो रविस्तापकृत्पर्जन्यश्चपलाशयः। तथा जडाशयो डलयोक्यात जडो मन्दो मूखः प्रज्ञाहीना निबुद्धिराशयोऽभिप्रायश्चेतो यस्य । प्रक्षे जलमय आशयो मध्यं यस्य जलानामाश्रयो वा । आशय आश्रयेऽभिप्रायपनसयोरपि' इत्यनेकार्थः । तथा 'दयासमुद्रे स तदाशयेऽतिथीचकार कारुण्यरसापगा गिरः' इति नैषधे । 'कृपापारावारे नलहृदये' इति तद्वृत्तिः । अतो मनाऽपि एतावता पशुवदज्ञानः पश्चात्कर्मधारयः॥
શ્લેકાર્થ
વર્ષાકાલમાં વિષપ્રદ એક સ્થાને નહીં રહેનારે, તેમજ જડાશય મૂર્ખ જલને આશ્રય લેનાર આવા પિતાના અપવાદ દૂર કરવા માટે મેઘ સાધુઓમાં શ્રેષ્ઠ એવા આચાર્યદેવની ઉપાસના કરવા માટે જાણે આ ન હોય! ! ૧૧૩ છે
निजौजसैवोन्मदयन्मनांसि यो योगिनां यौबनवत्पयोदः । अहो व्यनंसीत्स्तनितः स्तवौधैरिव स्तुवन्सोऽप्यनगारशक्रम् ॥ ११४॥