________________
-
३९०
हीरसौभाग्यम्
[सर्ग १३ श्लो० १११-११२ ।
तदा तत्र प्रावृट्प्रथमसमये अवनिवनानां नवपल्लवीभवनानन्तरमम्बुवाहो मेघो भूमीरुहां पादपानां शाखा एव कराः पाणयस्तैः कृत्वा लतानां प्रधालाः पल्लवा एवाग्रकरा हस्ताग्राणि तान् ग्राहयति स्म । किंवत् । द्विजवत् यथा ब्राह्मणो वराणां परिणेतृणां शाखावल्लम्बमानैः करैः। अत्र स्कन्धादारभ्याङगुली यावत्पाणिरेव विवक्षितः । कनीनां कुमारिकाणां प्रवालवदयान्प्रकृष्टान् शोणिमसौकुमार्ययुक्तान् हस्तान् ग्राहयति । तत्र तावद्वेदपाठोच्चारो भवति । तमेवाह-किंलक्षणोऽम्बधरः । गर्जाः स्तनितान्येव आत्ता ग्रहीता वेदध्वनयो विवाहोचितोच्चरिता वेदऋचा शब्दा येन ॥
કલેકાર્થ
જેમ બ્રાહ્મણ વરના હાથમાં વેચ્ચારપૂર્વક કન્યાના હાથનું ગ્રહણ કરાવે; અર્થાત પાણિગ્રહણ કરાવે, તેમ મેઘ ગર્જનારૂપી વેદોચ્ચારપૂર્વક વૃક્ષની શાખારૂપી હાથની સાથે લતાઓના પલરૂપી હાથનું ગ્રહણ કરાવતે હો ! અર્થાત્ હસ્તમેળાપ કરાવતે હતે ! ૧૧૧ છે
अभैरनीकैरिव दिग्विभागानाक्रामाश्छन्नतपर्तुदस्योः । केकारवैः किं क्रियतेऽम्बुदस्य जयध्वनिश्चन्द्रकिबन्दिवृन्दैः ॥ ११२ ॥
अम्बुदस्य जलधरस्य चन्द्रकिनो मयूरः । 'अच्छाच्छैः शुकपिच्छगुच्छहरितैश्छिन्ना वानान्तास्तृणैः सेव्याः संप्रति सान्द्रचन्द्रकिकुलैरुत्ताण्डवैर्मण्डिताः' इति चम्पूकथायाम् । त एव बन्दिवृन्दानि मङ्गलपाठकपटलानि तै: केकारघैः केका इति शब्दैः कृत्वा । उत्प्रेक्ष्यते-जय जय इति ध्वनिः क्रियते किं विधीयत इव । 'सरुपाणाभेकशेषः' इति एकपञ्चजयशब्दोऽवशिष्टः । अभ्बुदस्य किं कुर्वतः अनीकैः कटकैरिवाभ्रर्वद्दलकैः कृत्वा दिग्विभागान् समस्तानां हरितां प्रदेशानाक्रामतो ध्याप्नुवतः स्वायत्तान्वा सृजतः । पुनः किंभूतस्य छिन्नो मूलादुन्मूलितस्तपर्तुनिंदाघसमय एव दस्युः शत्रुर्येन ॥
શ્લેકાર્થ
વાદળરૂપી રન્યથી દિશામંડલને વાપ્ત કરવાના તેમજ ગ્રીષ્મ કાલરૂપી શત્રુને નાશ કરનારા મેઘરૂપી રાજાનો મરો મંગલ પાઠક દ્વારા જાણે કેકારવરૂપી જયારવા કરાતે ન હાય ! ! ૧૧૨ છે