________________
३९२
हीरसौभाग्यम् [सर्ग १३ श्लो० ११४-११५
यः पयोदो धाराधरः निजस्यात्मनः ओजसा प्रतापेनैव बलेनैव । माहात्म्येनैवेत्यर्थः । योगिनां वशिनां शमिनामपि मनांसि चित्तान्यमदयन्मदयुक्तानि कृतवान् । किंवत् । यौवनवत् । तथा तारुण्यं संयमिनामपि नन्दिषेणार्द्रकुमाररथनेमिप्रमुखाणामपि मानसानि समदानि सकन्दर्पाणि करोति स्म । यदक्तम-'यौवने विकिरत्येव मनः संयमिनामपि। राजमार्ग प्ररोहन्ते वर्षाकाले किलाङकुराः ॥' इति । अहो इति आश्चयें । सोऽपि कन्दर्पदर्पोत्पादयितापि पयोदः तमनगारशक्र मुनीन्द्र व्यनंसीत् उन्नमनागमनमिषाद्विशेषेण नमति स्म । उन्नमय्यागतत्वान्नमस्कृतिलक्ष्यते । किं कुर्वन् । स्तवौधः स्तोत्रप्रकरैरिव । उत्प्रेक्ष्यते-स्तनितर्जितैः कृत्वा स्तुवन्निव स्तुतिं कुर्वन्निव । अन्योऽपि स्तुवन्नेव प्रणमति ॥ इति मेघागमनम् ॥
શ્લેકાર્થ
અહીં, આશ્ચર્યની વાત છે કે પિતાનાં માહાત્મથી યૌવન અવસ્થાની જેમ ગીઓનાં પણ ચિત્તમાં ઉન્માદ પેદા કરે તે પણ મેઘ, પોતાની ગર્જનાઓ રૂપ સ્તોત્ર વડે સ્તુતિ કરતે આચાર્ય ભગવંતને નમસ્કાર કરતા હતા, ૧૧૪
भोगीव योगी स तदा शमश्रीसङ्गी प्रविश्प ग्रणिधानसौधम् । दिनं तदर्हद्गुणकीर्तनेन व्यतीत्य सांध्यं विधिमन्वतिष्ठत् ॥ ११५ ॥
तदा तस्मिन बहलीभूतनूतनजीमूतसमये स हीरसरिोगी मनोवचनकाययोगवान्, अथ वाष्टाङ्गयोगयुक्तः । अर्हतामतीतानागतवर्तमानतीर्थकृतां गुणानां कीर्तनेन स्तवनेन कृत्वा तज्जगन्मल्लमन्दिरस्वमागन नीरदागमनसंबन्धि दिन वासरं व्यतीत्यातिक्रम्य सांध्य दिवसावसानसत्क विधि प्रतिक्रमणादिकृत्यमन्वतिष्ठत्करोति स्म । किं कृत्वा। दिन व्यतीत्य । प्रणिधानं ध्यानमेव सौधं विलाससम प्रविश्यान्तर्निलीय । किंलक्षणः । शमश्रिया सङ्गो मिथः परिरम्भोऽस्त्यस्य स उपशमकमलानुषङ्गो । क इव । भोगीव । यथा भोगभाक् पुमान कामिनीगाढालिङ्गनरङ्गवान् प्रावृषि क्रीडामन्दिरे प्रविश्य सघन दिन व्यत्येति ॥
શ્લોકાઈ
જગમાલના મહેલમાં શમશ્રીવાળા આચાર્યદેવ અતીત, અનાગત અને વર્તમાન એમ ત્રણે કાળના તીર્થંકર ભગવતેની ગુણસ્તુતિ દ્વારા દિવસને વ્યતીત કરી, પ્રતિક્રમણ