________________
सर्ग १३ श्लो० १०६-१०७]
हीरसौभाग्यम्
३८७
प्रेक्ष्य क्षणं कामरसोन्मदिष्णू नानुषङगेण तरङ्गिताङगी। पुत्रीः स्रवन्तीः पितरो गिरीन्द्राः प्रस्थापयन्तीव पति पयोधिम् ॥ १०६॥
पितरो जनिकर्तारः ततो गिरीन्द्राः महाशैला हिमाचलाधाः पुत्रीरङ्गजाताः पर्वतोत्पन्नत्वात् स्रवन्तीनदीः । उत्प्रेक्ष्यते-पतिं भर्तार पयोधिं समुद्र प्रति समुद्रस्य नदीपतित्वात्प्रस्थापयन्ति प्रेषयन्तीव । किं कृत्वा । क्षणं क्षणमात्र काममतिशयेन रसैः पयःपूरैः उन्मदिष्णूरुन्मत्ताः रङ्गत्तरङ्गैस्तरीतुमशक्याः तटस्थितशाखिनिषूदिनीर्वा । तथा घनानां वारिवाहानामनुषङ्गेण संगमेन तरङ्गाः कल्लोलाः सजाता अस्मिस्तावृशमङ्ग शरीरं यासां तादृशीः प्रेक्ष्य दृष्ट्वा । अन्येऽपि पितरः मुहूर्त कंदर्परसेन उन्मत्ता घनरुपपतिभिः सम • संगमेन तरङ्गितमुपचितमङ्ग कायो यासां तादृशीः स्वपुत्रीः प्रेक्ष्य भर्तुः पावे प्रस्थापयन्ति ।
શ્લેકાર્થ
જેમ કેઈ પિતા અન્ય પુરુષ પ્રત્યે આસક્ત કામાતુર એવી પિતાની પુત્રીને જોઈને, તેના પતિ પાસે મોકલી આપે, હિમાલય આદિ પર્વતે એક ક્ષણ પણ કામના ઉકથી (જલથી) મદોન્મત્ત બનેલી તેમજ મેઘના સંગમથી પુષ્ટ બનેલી એવી પિતાની પુત્રી-નદીઓને જોઈને જાણે તેમના પતિ સમુદ્ર પાસે મેલી भापता न उसय ! ॥ १० ॥
स्वयं धरित्रीधरताभिषेकोत्सवे प्रयुक्तान्कजजन्मनेव । तदोन्नमन्नीरदमुक्तधारापयःप्रवाहानवहन्महीधाः ॥ १०७ ॥
तदा तस्मिन्वर्षाकाले उन्नमन्तो नीरभारैर्नम्रीभवन्तो भूमण्डलमम्बरतल वाम॑वर्दलकैरेकीकुर्वन्तो था ये नीरदा घनास्तैर्मुक्ता या धारा वारिवृष्टिलेखास्तासां पयसां पानीयानां प्रवाहान् महीध्राः गिरयः शैला अवहन्धारयन्ति स्म । उत्प्रेक्ष्यते-कजजन्मना ब्रह्मणा स्वयमात्मनैव धरित्रीधरताया राजन्वत्त्वस्य भूमीभारोद्धृताया वा अभिषेकः पट्टाभिषेककरण तस्योत्सवे प्रयुक्तान्प्रेरितानिष ॥