SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ हीरसौभाग्यम् सर्ग १३ श्लो ० १०४-१०५ आक्रम्य दैत्यारिपदं स्थितस्याम्भोदस्य माहात्म्यमुदीर्यते किम् । कृतान्ततातो दशदिक्प्रसारिकरोऽपि येनाधरितो महस्वी ॥ १०४ ॥ दैत्यानां दानवानामरेनिषूदनस्यापि पदं स्थानं राज्यं वाचरण च विष्णुपदमाक्रम्य स्थितस्याभिव्याप्य वसतः अम्भोदस्य मेघस्य माहात्म्य महिमा किं उदीर्यते वर्ण्यते कथ्यते । येन कारणेन अम्भोदेन महस्वी प्रतापवान् तथा दशसु दिक्षु व्याप्नुवन्तीत्येवंशीलाः करा राजदेयांशाः किरणाश्च यस्य तादृशः । तथा कृतान्तस्य सकलसुरासुरनर. लोकसंहर्तु रपि तातः पिता अधरितस्तिरस्कृतः । आच्छादित इत्यर्थः । 'करः प्रत्यायशुम्भयोः । रश्मौ वर्षोंपले पाणौ' इत्यनेकार्थः । 'प्रत्यायो राजग्राह्यो भागः इत्यर्थः' ' इति तदवर्णिः । मेघे समुन्नते रविः कस्य स्वास्यं न दर्शयतीत्यधरीकरणमेव ॥ શ્લોકાઈ વિષ્ણુપદ-આકાશને આક્રમણ કરીને રહેલા મેઘનું શું માહાસ્ય વર્ણવું ? કારણ કે દશે દિશામાં જેણે પિતાનાં કિરણ એવા મહાપ્રતાપી યમ પિતા સૂર્યને પણ જેણે તિરસ્કાર કર્યો છે, અર્થાત્ મેઘના ઉદયમાં સૂર્ય પિતાનું મુખ દેખાડતું નથી, તેથી જાણે મેઘ વડે સૂર્ય તિરસ્કૃત થયે ન હોય ! ! ૧૦૪ प्राप्ते प्रियेऽब्देऽजनि भूजनीयं वप्पीहरावैः कृतचाटुकेव । प्रोद्भिन्नकन्दैः पुलकाङ्कितेवारब्धाङ्गहारेव कलापिलास्यैः ॥ १०५ ॥ प्रिये प्राणनाथे अब्दे मेघे प्राप्ते समागते सति भूजनी वसुधावधूः वप्पीहानां सारङ्गाणां रावैः प्रिय प्रिय इति शब्दैः कृत्वा कृतं विनिर्मितं चाटु प्रियप्रायं बाक्यं यया सा कृतचाटुका तादृशीवाजनि जाता । प्रोभिन्नैः प्रकटीभूतैः कन्दैः कन्दलैः पुलकेन रोमाञ्चेन अङ्किता कलितेवाजनि । तथा कलापिनां मयूराणां लास्यैत्थैः आरब्धः कृतः अङ्गहारोऽङ्गविक्षेपः ताण्डवविशेषो यया तादृशीवासीत् ॥ કલેકાર્થ પિતાના પ્રિય-પ્રાણનાથ મેઘની પ્રાપ્તિ થવાથી પૃથ્વીરૂપી સ્ત્રી ચાતકોના શબ્દ વડે પ્રિય પ્રિય એવાં ચાટુ વચને બેલનારી થઈ, પ્રગટ થયેલા અંકુરો વડે રોમાંચિત બની અને મયૂરનાં નૃત્ય વડે અંગવિક્ષેપ કરનારી બની ! ૧૦૫ |
SR No.005968
Book TitleHeersaubhagya Mahakavyam Part 02
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1977
Total Pages482
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy