________________
सर्ग १३ श्लो० १०२--१०३]
हीरसौभाग्यम्
पौष्पेण चापेन जये त्रिलोक्याः स्मरेण दुःखीभवतार्थितेन । अमोघमम्भोजभ्रुवेव चक्रे तदर्थमाखण्डलचापचक्रम् ॥ १०२ ॥
३८५
अम्भोजभुवा जगत्सृष्टिकर्त्रा तदर्थं कंदर्पकृते । उत्प्रेक्ष्यते - अमोघ देवदानवमानवलोकेषु सर्वत्राप्यस्खलितमाखण्डलचापचक शक्रकोदण्डमण्डल' चक्रे कृतमिव । किंलक्षणेन अम्भोजभुवा । पौष्पेण कुसुमसंबन्धिना प्रसूनमयेन चापेन शरासनेन कृत्वा त्रिलोक्या जये त्रिभुवनशोकरणे दुःखीभवता कष्टं प्राप्नुवता स्मरेण मनोभवेन अर्थितेन याचितेन ॥
શ્લાકા
પુષ્પાના ધનુષ્યથી ત્રણ જગતને જીતવામાં કષ્ટ પ્રાપ્ત કરતા એવા કામદેવની યાચનાથી જાણે બ્રહ્માએ, તેને માટે ( કામદેવ માટે ) આ મેદ્યરૂપ અમેઘ ઇંદ્રધનુષ્યને સમૂહ અનાન્યા ન હાય ! ॥ ૧૦૨૫
विश्लेषियोषाविरहोष्मशुष्य त्तनू निहन्तुं दयितेन रत्याः ।
कार्शानवं शस्त्रमिव प्रयुक्तं व्यलीलसयोनि तडिद्वितानम् ॥ १०३ ॥
व्योम्न गगनाङ्गणे तडितां विद्वतां वितानम् । वृन्दमित्यर्थः । व्यलीलसद्दीप्यते स्म । उत्प्रेक्ष्यते - रत्या दयितेन भर्त्रा स्मरेण प्रयुक्त प्रेरितम् । मुक्तमित्यर्थः । कार्शानव कृशानुसंबन्धि वह्निमयं शखमिव । किं कर्तुम् । विश्लेषो निजवल्लभैवियोगो विद्यते यासां ता विश्लेषिण्यो विरहिण्यस्तादृश्यो योषाः कामिन्यः तासां विरहोष्मणा प्रबलप्रियवियोगतापेन शुष्यन्तीः शोषं प्राप्नुवन्तीः । कृशीभवन्तीरित्यर्थः । तनूः शरीराणि निहन्तु ज्वालयितुमिव ॥
શ્લાકા
ગગનાંગણમાં વિજળીઓના સમૂહ શાભતા હતા; તે જાણે વિરહિણી પત્નીઓના વિરહ તાપથી શેાષાતા શરીરને ભસ્મીભૂત કરવા માટે પેાતાના પતિ કામદેવની પ્રેરણાથી રતિએ મૂકેલુ અગ્નિનું શત્રુ ન હાય ! ૫ ૧૦૩ ॥
हि० सौ० ४९