________________
३७८
हीरसौभाग्यम्
[सर्ग १३ श्लो० ८९-९०
साधुसुधामरीचेः वाचंयमामृतकिरणस्य सूरेनिध्यानतः दर्शनादेव । 'निध्यानमवलोकनम् । दर्शनम्' इति हैम्याम् । अश्वाः प्रमोदाजहेषिरे हेपारव विदधते स्म । च पुनगंजा हस्तिनः जगणुः सजलजलधररावानुयायि गर्जारवं विदधिरे । उत्प्रेक्ष्यते-आत्मनः स्वस्य गोत्रेषु वंशेषु वृद्धानग्रजानाद्यान्वा जम्भद्विषतः पुरंदरस्य वाजिनो वाहा गजा द्विरदाः । उच्चैःश्रवसः ऐरावणो गजः समुत्पन्नस्तत्संतानानि परेऽश्वा गजाश्च । यथा चम्पूकथायाम्-'किंलक्षणः। सकलसुरासुरकरपरिघपरिवर्त्यमानमन्दरमन्थानकमथितदुग्धाम्भोनिधेरजनि जनितजगद्विस्मया स्मरजननी लक्ष्मीमृगाङ्कसुरतरुधन्वन्तरिकौस्तुभोच्चैः श्रवसा सहभूः शशधरकान्तिरेरावतस्तत्प्रसूतिरियमशेषवनान्पलंकरोति । यथैव ऐरावतस्य तथैवोच्चैःश्रवसोऽपि प्रसूतिरिति ॥
કલેકાર્થ
સાધુઓમાં ચંદ્ર સમાન આચાર્યદેવનાં દર્શનથી હર્ષિત થયેલા અધો હણહણાટ કરતા હતા, અને હાથીઓ ગજન કરતા હતા, તે જાણે પિતાનાં ગોત્રમાં ઈદ્રના અિરાવણ હાથીને અને ઉચ્ચ શ્રવત્ અને આચાર્યદેવનાં દર્શન કરી પાવન થવા માટે જાણે બેલાવતા ન હોય ! ! ૮૯
उत्कण्ठुलास्तन्दुललाजमुक्ताषङक्तया प्रमोदात्पथि पौरकन्याः । अवाकिरंस्तं पृषतैः प्रवृद्धपयोधिवेला इव शर्वरीशम् ॥ ९० ॥
उत्कण्ठुलाः सात्कण्ठाः । 'उदः कण्ठादुलो मत्वथे उत्कण्ठुलः' इति प्रक्रियाकौमुद्याम् । ' तथा-'स सूर्योदयादाक् नलिनीगुल्मविमानगमनार्थमुत्कण्ठुलः संयमप्रतिपत्तये प्रहर्षकः' इत्याचारप्रदीपे श्रीरत्नशेखरसूरिकृते । पौरकन्या नागरिककुमारिकाः पथि मागे प्रमोदादानन्दात्तं गुरु तन्दुलाश्चोक्षा अखण्डाः तुषकलकलमास्तथा लाजा भ्रष्टा यवाः । लाजवर्धापनं शास्त्रेषु दृश्यते । यथा-'अवाकिरन्वयोवृद्धास्तं लाजैः पौरयोषितः' इति रघौ । तथा मुक्ताफलानि तासां पतया श्रेण्या अवाकिरन वर्धापयन्ति स्म । का इव । प्रवृद्धपयोधिवेला इव । यथा चन्द्रचन्द्रिकालिङ्गनप्रवर्धमानपयसः पयोधेः समुद्रस्य वेला जलवृद्धिः । 'वेला स्यावृद्धिरम्भसः' इति हैम्याम् । पृषतैः पयोबिन्दुभिः कृत्वा शर्वरीशं रजनीनायकं चन्द्रमवकिरति वर्धापयति ॥ इति गुरुवन्दनाधिकारः ।।
શ્લોકાર્થ જેમ વધતી જતી સમુદ્રની વેળા (ભરતી) જલબિંદુઓથી ચંદ્રને વધાવે તેમ નગરવાસી કુમારિકાઓ ઉત્કંઠિત થતી આનંદપૂર્વક અક્ષત અને મોતીઓથી આચાર્ય हेपने धावती ती. ॥१०॥