________________
सर्ग १३ श्लो० ८७-८९]
हीरसौभाग्यम्
३७७
भगवन्नरखेषु सूरेन्द्रचरणकामाङकुशेषु नम्राणां नमनशीलानामङ्गभाजां प्राणिनां दृशो नेत्राणि, तथा दन्तपङ्क्तिः प्रमोदवशाद्विकसितवदनारविन्दानां दशनश्रेणी, स्मितं हसितं तेषां प्रतिबिम्बितानि विभान्ति । उत्प्रेक्ष्यते-बालान्युदयमानानि इन्दूनां चन्द्राणां बिम्बानि मण्डलानि तेषु मिलिताः स्नेहेन एकत्रभूताः चकोरा ज्योत्स्नाप्रियास्तथा तारकाश्चन्द्रकान्ताश्चन्द्रातपाश्चन्द्रिकाः किम् ॥
શ્લેકાર્થ
આચાર્યદેવનાં ચરણના નખમાં નમન કરી રહેલા ભાવિકેની દૃષ્ટિએ, દંતપંક્તિઓ, અને રિમત (હાસ્ય) નાં પ્રતિબિંબ શોભે છે. તે જાણે બાલચંદ્ર પાસે | સનેહપૂર્વક એકઠા થયેલ ચકે તારામંડલી અને ચંદ્રિકાએ ન હોય ! ! ૮૭ છે
प्रभोर्नेखनम्रनितम्बिनीनां कचच्छटानां प्रतिमा ध्रियन्ते । स्वर्भाणुविद्वेषिजिगीषयार्भमार्तण्डबिम्बैरिब मण्डलाग्नाः ॥ ८८ ॥
प्रभोहीरसूरेनखैः क्रमकामाङकुशैर्नम्राणां भक्तिप्रहत्वेन नमस्करणशीलानां नितम्बिनीनां वनितानां कचच्छटानां केशपाशानां प्रतिमाः प्रतिबिम्बानि ध्रियन्ते आश्रीयन्ते । उत्प्रेक्ष्यते-स्वर्भाणुर्विधुतुदः स एव विद्वेषी प्रतिपक्षस्तस्य जिगीषया जेतुमिच्छया हन्तु वाञ्छया वा अर्भा उदयमाना ये मार्तण्डा भास्करास्तेषां बिम्बैर्मण्डलामास्तरवारय इव धार्यन्ते ध्रियन्ते इव ॥
લોકાથ
આચાર્ય મહારાજનાં ચરણેને નમન કરી રહેલી સ્ત્રીઓના કેશપાશમાં ચરણનખે પ્રતિબિંબરૂપે બન્યા. તે ન જાણે પિતાના શત્ર રાહુને જીતવા માટે બાલસૂર્યનાં બિંબેએ તલવારે ધારણ કરી ન હોય તેવા શુભતા હતા ! છે ૮૮
जहेषिरेऽश्वाश्च गजा जगर्जुनिध्यानतः साधुसुधामरीचेः । जम्भद्विषद्वाजिगजानिवात्मगोत्रेषु वृद्धान्पवितु द्वयन्तः ॥ ८९ ॥
हि सौ० ४८