________________
हीरसौभाग्यम्
[ सर्ग १३ श्लो० ८५-८७
'अन्वासितमरुन्धत्या स्वाहथेव हविर्भुजम्' इति रघुवंशे । तथा 'हा स्वाहाप्रिय घूमम जमभुं त्वा न किं दूयसे' इति तोक्तेः ॥
શ્લેાકાથ
જેમ વિવાહિત યુગલ સ્વાહાયુકત અગ્નિને પ્રદક્ષિણા કરીને પ્રણામ કરે, તેમ શ્રી સંઘે પેાતાતાની પત્નીએ સહિત, સમાધિપૂર્વક પદ્માસને બેઠેલા આચાય દેવને પ્રદક્ષિણા દઈને ભકિતપૂર્વક પ્રણામ કર્યાં, અર્થાત વંદન કર્યું. ॥ ૮૫ ૫
३७६
रेणुर्जिघांसुलघिमानमेतत्क्रमौ किमाश्लिष्य वितिष्ठमानम् । प्रणेमुषां जन्मजुषामलीकललामलीला श्रियमश्नुते स्म ॥ ८६ ॥
रेणुः प्रभुपदाम्बुजरजः प्रणेमुषां प्रणतानां जन्मजुषां प्राणिनामली के भालस्थले ललामलीलायास्तिलकविलासस्य श्रियं शोभामश्नुते स्म व्याप्नोति स्म । लेभे इत्यर्थः । किंभूतः रेणुः । एतत्क्रमौ सूरिपादौ आश्लिष्यालिङ्गय वितिष्ठमानो वसन् । उत्प्रेक्ष्यते— लघिमान निजलघुभावं जिघांसुर्हन्तुमिच्छुरिष । 'ये जात्या लघवः सदैव गणनां प्राप्ता न ये कुत्रचित्पद्भ्यामेव विवर्जिताः प्रतिदिन भूमौ विलीनाश्चिरम् । उत्क्षिप्ताञ्चपलाशयेन मरुता पश्यान्तरिक्षे सखे तुङ्गानामुपरिस्थितिं क्षितिभृतां कुर्वन्त्यमी पांसवः ॥ इति कोक्तेर्लघिमा रेणूनाम् ॥
શ્લાકા
આચાય મહારાજનાં ચરણ કમલની રજે નમસ્કાર કરતા ભાવિકાના ભાલસ્થલે તિલકની શાભા પ્રાપ્ત કરી ! તે રજ જાણે પાતાની લઘુતાને નાશ કરવા માટે સૂરિજીનાં ચરણકમલને આશ્રયીને રહી ન હોય ! ! ૮૬ ॥
नम्राङ्गभाजां भगवन्नखेषु दृग्दन्तपक्तिकिस्मितबिम्बितानि । बालेन्दुबिम्बेषु कोरताराचन्द्रातपाः किं मिलिता विभान्ति ॥ ८७ ॥