________________
सर्ग १३ श्लो० ९१-९३]
हीरसौभाग्यम्
३७९
विशां दृशः प्रीणति शक्रकेताविव क्षणेऽस्मिन्बहलीभविष्णौ । निशम्यता वर्त्मनि पौरवृद्धाविश्वस्तकान्ताशुभशंसितानि ॥ ९१ ॥ एकत्र जाग्रत्रिजगद्विभूतिदिदृक्षयात्रोपगता प्रभेव । शनैः शनैः संचरताथ तेन फतेपुरस्योपपुरं प्रपेदे ॥ ९२ ॥ ( युग्मम् )
अथ संघस्य संमुखागमवन्दनानन्तर शनैः शनैर्मन्द मन्द संचरता युगप्रमाणक्षो. णीसमीक्षणक्रमेण प्रचलता सूरिणा फतेपुरस्य साहिराजधान्या उपपुरं शाखापरं प्रपेठे संश्रिते । तत्राजगामेत्यर्थः । उत्प्रेक्ष्यते-एकत्र एकस्मिन्नेव श्रीकरीलक्षणस्थाने जाग्रत्याः स्फुरन्त्या वसन्त्याः त्रिजगतां त्रयाणां भुवनानामपि विभूतेर्लक्ष्म्या दिक्षयाद्रष्टुमिच्छया अत्र फतेपुरसमीपे उपगता समेता प्रभा अलका धनदनगरीव । 'पुरी प्रभा । अलका वस्वोकसारा' इति हैम्याम् । तेन किं कुर्वता । वर्त्मनि मागे पौरेषु नागरिकेषु वृद्धा मुख्यास्तेषामविश्वस्तानामविधवानाम् । सुवासिनीनामित्यर्थः । 'विश्वस्ता विधवा समे' इति हैम्याम् । तादृशीनां कान्तानां सामान्यतः स्त्रीणाम् । अथ वा पुरे भवाः पौर्य: पौर्यश्च ता वृद्धाः पौरवृद्धाः नगरसंबन्धिन्यस्तथा महत्यः तथा अविश्वस्ताः सधवास्तादृशीनां वशानां शुभशंसितानि आशीर्वचनानि निशम्यता शण्वता पैञ्जूषविषयीकुर्वता । कस्मिन् सति । शक्रकेतौ इन्द्रध्वज इव अस्मिन्प्रभुप्रवेशे संमुखकरणलक्षणे क्षणे बहलीभविष्णौ दृढीभवनशीले बहुतमे जायमाने सति विशां जगजनानां दृशो लोचनानि प्रीणति प्रह्लादयति । सर्वनेत्रानन्ददायित्वात् । 'पुरहूतध्वजस्येव तस्योन्नयनपङक्तयः' इति रघौ ॥ युग्मम् ॥
શ્લેકાર્થ
ઈદ્રધ્વજની જેમ જગતનાં નેત્રને આનંદદાયી પુષ્ટ પ્રવેશ મહત્સવ થતાં માર્ગમાં નાગરિકની સધવા સ્ત્રીઓના શુભ સંદેશને સાંભળતા આચાર્યદેવ મંદમંદપણે ચાલતા ફત્તેપુરની સમીપમાં શાખાપુરમાં પધાર્યા. તે શાખા પુર પણ જાણે એક જ શ્રીકરી (ફક્તપુર) નગરીમાં ત્રણે જગતની થયેલી લક્ષમીને જોવા માટે ધનદપુરી અલકા આવેલ ન હોય તેવું શોભતું હતું ! / ૯ / ૯૨ .
स श्रीकरी गन्तुमपीहमानः शाखापुरं भूषयति स्म सरिः । आश्लेषितु केवलपद्मवासां श्वेणीमिवात्मा क्षपकाभिधानाम् ॥ ९३ ॥