________________
३७४
हीरसौभाग्यम्
[सर्ग १३ श्लो ० ८२-८३
स फतेपुरसत्कः संघो जनसमुदायः । 'संघसार्थों तु देहिनाम्' । चचाल सूरिसंमुख प्रतिष्ठते स्म । किंभूतः । स्वस्यात्मनो गौरवेण हास्तिकाश्वीयरथकङ्मादिजनितातिभारेण युक्ताया उर्ध्या भूमेर्वहने धारणे · प्रतीता विहिता संशीतिः संशयो येन । हा मया अतिभारवतीय जगती कथ हविष्यते इति संशीतिः तादृशः शेषो नागाधिराजो यत्र । संघः किं कुर्वन् । परेष्वन्यवदान्यजनेषु विषये न अधीता पठिता अभ्यस्ता वा अर्थना याचना यैः तादृशानर्थिजनान् याचकलोकान् सृजन कुर्वन् । क इव । अब्द इव । यथा वारिदो नभोम्बुपान् नभस्तो वर्षद्वारिदात्पतत्प्रोच्चैः कृतं प्रसारितं चञ्चुपुटान्तरायातमम्बु पिबन्तीति नभोम्बुपान् वप्पीहान् । तत एवोक्तम्-‘एक एवं खगो मानी चिर जीवतु चातकः । पिपासितो वा नियते याचते वा पुरंदरम् ॥' इति । परेषु व्यतिरिक्तजनाश-.. येषु विषये निर्मुक्तार्थनान्करोति ॥
પ્લેકાર્થ
જેમ ચાતક મેઘનું જ જલ પી, તૃષાતુર થઈને મરી જાય, પરંતુ બીજા પાસે કદાપિ પાણીની યાચના કરે નહીં, તેમાં પ્રવેશ મહત્સવ સમયે સંઘે અગણિત દાન દઈને યાચકજનોને “યાચના” શબ્દથી મુક્ત કર્યો. અર્થાત્ યાચક શબ્દ અનભ્યાસ રૂપે કરાયે! વળી, હાથી-ઘડા-થ અને જનસમુદાયના અતિભારને વહન કરવા માટે શેષનાગને શંકા ઉત્પન્ન થઈ કે “
હમારાથી આટલે બધે ભાર કેવી રીસિ સહન કરી શકાશે ? આવી રીતે સંઘ આચાર્ય દેવના પ્રવેશ મહત્સવમાં ચાલતું હતું. !
धात्रीपवित्रीकृतये प्रणीतजनि पुनः किं वसुभूतिपुत्रम् । संघो मुनीनां मघवानमेनं स्वचक्षुषोर्गोचरयांचकार ॥ ८३॥
संघ एनं पातिसाहिसबहुमानाबानायात मुनीनां साधूनां मघवान पुरहूत श्रीहीरविजयसूरीश्वर स्वस्यात्मनश्चक्षुषोर्लोचनयोर्गोचरयांचकार । विलोकते स्मेत्यर्थः । उत्प्रेक्ष्यते-धाच्या भरतक्षेत्रक्षोण्याः पवित्रीकृतये पाचनीकरणाय पुनर्द्वितीयवार प्रणीता स्वमेव कृता जनिः स्वोत्पत्तिर्येन तादृशम् । किंवत् । वसुभूतिपुत्र यौतमस्वामिनमिव । 'श्रीइन्द्रभूतिं वसुभूतिपुत्रपृथ्वीभवं गौतमगोत्ररत्नम्' इति पूर्वाचार्यस्तुतौ ॥ इति पुरसंघकृतहीरसूरिसंमुखकरणोत्सवः ॥..