________________
सर्ग १३ श्लोक ७७-७८]
हीरसौभाग्यम्
३७१
संख्यातिगैस्तद्गजवाजिपत्तिशताङगभारोद्वहनाप्रभूष्णुम् । धात्रा कृता धारयितुं धरित्रीं स्तम्भा इवाहीन्द्रफणाः सहस्रम् ॥ ७७ ॥
धात्रा जगत्सृजा धरित्रीं क्षोणी धारयितुमतिमारासहितया पातालमूल यान्ती रक्षितुम् । उत्प्रेक्ष्यते-सहस्र दशशतीमिता अहीन्द्रस्य नागराजस्य फणा विस्तृतशिरांसि एव स्तम्भाः स्थूणाः कृताः प्रणीता इव । किंभूतां धरित्रीम् । संख्यां गणनामतिगच्छन्त्यतिक्रामन्तीति संख्यातिगा गणनातीता ये एतस्य सरेः संमुख प्रस्थितस्य संघस्य गजाः कुञ्जरा वाजिनो विविधजनपदजन्माश्वाः पत्तयोऽनेकजातिपादचारिभृत्या मनुष्याः परे वा
शताङ्गास्तुरङ्गवृषभरथ्यसनाथरथास्तेषां भारोऽतीघवीधवः तस्योद्वहने उद्धरणे अप्रभूष्णुम- समर्थी शक्तिरहिताम् ॥
પ્લેકાર્થ
આચાર્યદેવના પ્રવેશ-મહોત્સવ સમયે આગળ ચાલતા સંખ્યાતીત હાથી-ઘોડાપાયદળ-રથ આદિનું વજન વહન કરવામાં અસમર્થ એવી પૃથ્વીને ધારણ કરવા માટે બ્રહ્માએ જાણે શેષનાગની હજાર ફણાએ રૂપ સ્તંભે બનાવ્યા ન હોય ! ! ૭૭ પા
तद्धास्तिकाश्वीयरथोदधुताभिर्धलीभिरस्तारिषताखिलाशाः । क्षिप्तैर्दिगीशैरिव दिग्वधूभिः क्रीडद्भिरद्वैतरसेन चूणौंः ॥ ७८ ॥
तस्य संघस्य हास्तिकेन गजगणेन तथा अश्वोयेन वाजिव्रजेन तथा रथैः स्यन्दनैरुद्धृताभिरुत्खाताभिधूलीभिः रजोभिरखिलाः समस्ता अपि आशा दिशः अस्तारिषत । 'स्तृञ आच्छादने' अयं धातुः। आच्छादिताः । उत्प्रेक्ष्यते-दिग्वधूभिः स्वहरिन्महिलाभिः सह क्रीडां रहःसमये स्वतन्त्र कामपि कामलीलां वसन्तसमय इव सृजभिः कुर्वदभिदिंगीशैः दिक्पतिभिरद्वैतेनासाधारणेन रसेन शृङ्गारविलासविनोदेन क्षिप्तः परस्परोड़ायितैप्रचूर्णैर्वासयोगैरिव । 'वासयोगस्तु, चूर्ण स्यात्' इति हैम्याम् । 'अबीर' इति प्रसिद्धैः॥ 'क्रीडां सृजदुभिर्हरितां महेन्द्रः क्षिप्तैरिवाद्वैतरसेन चूर्णैः' इत्यपि पाठः । तस्यार्थ:क्रीडामन्योन्यं नर्म सृजदभिर्निर्मिमाणैर्हरितां महेन्द्रदिक्पाले:. अद्वैतानन्यसामान्येन रसेन शृङ्गारविनोदेन दिग्वधूः स्वकीयस्वकीयदिक्कान्ताः प्रति क्षिप्तःप्रेरितेप्रचणैर्वासयोगैरिव ॥