________________
हीरसौभाग्यम्
[सर्ग १३ श्लो०७२-७३
: निःस्वानवृन्दे प्रदुदः प्रहारान्केचिद्विपक्षव्रजवक्षसीव ।
अताडयन्केऽपि पुनर्मुदङ्गानमी सरन्ध्रा द्विमुखा इतीव ॥ ७२ ॥
केऽपि निःस्वानवादका जना निःस्वानानां राजवाद्यानां 'दामांमा' इति प्रसिद्धानां वन्दे प्रकारे प्रहारान् दण्डमहतीः ददुः । वादयन्ति स्मेत्यर्थः । विपक्षानां जिनशासनप्रत्यनीकानां व्रजानां समुदायानां वक्षसि हृदये इव प्रहारान्ददते । दुर्वादिहृदयानीव ताडयन्ति । पुनः केऽपि मार्दङ्गिकाः 'माइलिवा' इति प्रसिद्धाः मृदङ्गान्मुर जानताडयन घोंघों दोंदों वा इति शब्द कारयन्ति स्म । उत्प्रेक्ष्यते-इति हेतोस्ताडयन्ति । इति किम् । यदमी यत्कारणादेते सह रन्धेर्दोषैश्छिद्रेर्वा वर्तन्ते इपि सरन्ध्नाः सापगुणाः तथा द्विमुखाः कर्णैजपवे मुखे येषां ते । एकत्र पृथक् वदन्ति, अपरत्र च भिन्न वदन्तीति विमुखत्वम् । मृदङ्गास्तु नरमादलक्षणत्वे द्वयोः पार्श्वयोः शद्वायन्ते ॥
શ્લોકાર્થ
કેટલાક હેલીઓ ઢેલ વગાડતા હતા; તે જાણે દુર્વાદીઓનાં હૃદયનું તાડન કરતા ન હેય ! વળી કેટલાક મૃદંગને વગાડનારા માદલિઆએ મૃદંગ વગાડતા હતા તે on Y छिद्रवाणु तेभ द्विभुम (हुन) (भृगने मापा द्विभुम खाय छे; એક બાજુથી નરને અવાજ અને બીજી બાજુથી માદાને અવાજ નીકળે છે) હેવાથી તેની સદોષતા અને દુર્જનતા દૂર કરવા માટે જાણે તાડન કરતા ન હોય ! છે ૭૨
वनप्रदेशा इव केऽप्यलाबूव्यालम्बिवंशा सविरावितालाः । केचिन्मुकुन्दा इव कम्बुहस्ता वीणाकराः केऽपि गणा इवासन् ॥ ७३ ॥ ।
केऽपि जनास्तत्समये वनप्रदेशा विपिनभूमिभागा इव अलावू तुम्बिनीलतां तुम्बकं च विशेषेणालम्बते आश्रयन्ते इत्येवशीला वंशा वेणवो येषां येषु वा अमृतीयुक्ताः केवलतुम्बकेन तन्त्रीवादका वा आसन् । तथा केचिज्जनास्तालधरा विशिष्टं रवन्ति ध्वनन्तीत्येवं शीला विराविणस्तादृशास्ताला व्वव्वपुटाः सशब्दतालमा वा येषां येषु वा 'अभ्यभूयत वाहानां चरतां ..गात्रशिजितः । मर्मरः पवनोदभूतरा नतालीवनध्वनिः ॥ इति रघौ । इदानीमपि शुष्कपत्त्रास्तालतरवः सशब्दा दृश्यन्ते च । केचिज्जनाः मुकुन्दा कृष्णा इव कम्बुः सामान्य शङ्खः पाञ्चजन्यश्च हस्ते पाणी येषां तादृग्विधा बमुबुः । तथ केचित्पुरुषा गणा ईश्वरसेवकदेवविशेषाः । 'प्रमथा पार्षदा गणाः' इति हैम्याम् । ते इव