________________
३६४
हीरसौभाग्यम्
[सर्ग १३ श्लो० ६५-६६
द्विपैय॑तायन्त पटिप्ठघण्टाटङ्कारवाव्याहतबंहितानि । महीतलोद्वासितदुर्नयस्य प्रस्थानढक्काकणितानि मन्ये ॥ ६५ ॥
द्विपैर्वारणैरतिशयेन पनि पटिष्ठानि तथा घण्टानामन्तलम्बितायतदृढलालाभिवाद्यमानवाचविशेषाणां देवगृहादौ गजघण्टादिषु च प्रसिद्धानां टङ्कारवैष्टणत्कृतिकृतिकृद्घनिविशेषैरव्याहतानि अनिनुतानि बहुलीकृतानि वृहितानि गजगर्जारवाः व्यतायन्त विस्तार्यन्ते स्म । गजशद्वा बृंहितान्युच्यन्ते । यदुक्तं हैम्याम्-'गजानां गर्जबृंहिते' इति । उत्प्रेक्ष्यतेमहीतलादूभूमीमण्डलादुद्वासितस्य निष्कासितत्य दुर्नयस्यान्यायस्य प्रस्थाने प्रचलने ढक्का पटहः । 'ढक्का भेरी दुन्दुभिरानकः' इति हैम्याम् । तस्य क्वणितानि प्रयाणपटहध्वनय इव ।।
શ્લેકાર્થ
ગજઘંટાઓના અતિશય ટકરાવથી અવ્યવહિતરૂપે ઘન ગર્જના કરતા હસ્તિઓની ગજેના વડે દિશામાં વ્યાપ્ત બની, તે જાણે પૃથ્વી ઉપરથી કાઢી મૂકેલા અન્યાયને પ્રયાણુ–સૂચક ઢક્કાને આવાજ ન હાય !૬પ છે
भांकारिभेरीनिनदन्नफेरी दैदिगन्तानपि पूरयन्तीः । कर्णातिथीकृत्य कुपक्षल:निर्घोषिवर्षाशरभीवभूवे ॥ ६६ ॥
भामिति शब्दं कुर्वन्तीति भांकारिण्यस्तादृश्यो मेर्यो दुन्दुभयः अतिलम्बास्ताम्रमया तक्ता या निनदन्त्यः शब्दायमानाः नफेर्यः पित्तलमयाः विचित्ररचनावत्यः सुखवाद्या पादित्रविशेषास्ताः कर्णातिथीकृत्य स्वश्रवणानां प्राघुणीः प्रणीय । श्रुत्वेत्यर्थः । कुत्सितः सिद्धान्तविरुद्धः पक्षः स्वीकारो येषामेतावतां कुमतभाजाम् अथवा मिथ्याहशां लक्षैः परोलक्षः निर्घोषो नितरां घोषः कटत्कारः भयानकगर्जित विद्या तया सुता निर्घोषिण्यः ताश्च ता वर्षाश्च प्रावृषः तासाम् । वर्षाशब्दस्य बहुवचनान्तत्वात् । शरभीबभूवे । अष्टापदीभाव भेजे । वर्षांसु मेघगर्जित निशम्य शरभा उत्पत्योत्पत्य भूमौ पतित्वा म्रियन्ते । तथा भेरीनफेरीशब्दानाकर्ण्य कुपाक्षिका अपि मृतप्राया इव जायन्ते स्म । किं कुर्वतीः नफेरीः । नादैः स्वाद्वैतशब्दैदिगन्तानपि निखिलहरितामवसानगढराण्यपि पूरयन्तीनिर्मर भरन्तीः ॥