________________
सर्ग १३ श्लो ० ६३-६४ ]
हीरसौभाग्यम्
३६३
वार्नदीशः सरस्वान्' इति हैम्याम् । भवः सारस्वतः । तथा अमत्यैः इन्द्राश्वत्वात्सुरैः संसेव्यमानैः । ततोऽत्र कर्मधारयः ।।
Raisi - તે અવસરે ચંદ્રની સાથે બ્રાતૃભાવને ધારણ કરતા (ઉચ્ચકવર્ અને ચંદ્રની ઉત્પત્તિ એક સમુદ્ર હોવાથી બંને ભ્રાતા) કાશમીરમાં ઉત્પન્ન થયેલા અને મનુષ્ય વડે સેવાતા અશ્વો સંઘની આગળ ચાલતા શોભતા હતા, તે જાણે પૃથ્વી ઉપર આવેલા ४न्द्रन। म स्यैश्रवसनां प्रतिमा न डाय ! ॥ ६ ॥
यस्मिञ्जयन्त्यः कलकण्ठकण्ठाञ्जगुः समुत्कण्ठितकम्बुकण्ठयः। सिद्धाङ्गनाः स्वर्गिगिरेधरायां गुणान्गणीन्दोरिव गातुमेता ॥ ६४ ॥
यस्मिन्महोत्सवे समुत्कण्ठिताः गुरुगुणान् गातुं सम्यक् विधाप्युत्कण्ठा औत्सुक्य जातमासामिति समुत्कण्ठिताः कम्बुकण्ठ्यः सलक्षणलक्ष्मीवन्मृगाक्ष्यः जगुमधुर गायन्ति स्म । किं कुर्वन्त्यः । कलकण्ठानां कोकिलानां कण्ठान ध्वनीत् जयन्त्यः । 'कण्ठो ध्वनी संनिधाने ग्रीवायां मदनद्रुमे' इत्यनेकार्थः । उत्प्रेक्ष्यते-गणीनां साङ्गप्रवचनेऽधीतानामिन्दोश्चन्द्रस्य मरीन्द्रस्य गुणान् गातु गानगोचरीकतु स्वर्गिगिरे,रुपर्वतादेता आगताः सिद्धा देवविशेषास्तेषामङ्गनाः स्त्रिय इव । किं च किंनरसिद्धाङ्गना एव गीतौ प्रसिद्धिभाजः । यदुक्तं भोजप्रबन्धे–'देव त्व जय कासि लुब्धकवधूहस्ते किमेतत्पल क्षाम किं सहज ब्रवीमि नृपते यद्यस्ति ते कौतुकम् । गायन्ति त्वदरिप्रियाश्रुतटिनीतीरेषु सिद्धाङ्गना गीतान्धा न तृणं चरन्ति हरिणास्तेनामिष दुर्बलम् ॥' इति । तथा च 'यस्मिन्नासन्नसारङ्गाः सारं गायति किंनरी' इति चम्पृकथायाम् । किं च । मेरुः सुरावासः सवे. षामपि देवानां साधारणवासत्वात्सिद्धानामप्यावासः । ततस्तत आगमन युक्तमेव ॥
શ્લોકાર્થ
પ્રવેશ મહોત્સવમાં સારંગલેચના સ્ત્રીઓ કોકિલના કંઠને પણ શરમાવે તેવા મધુર સ્વરે આચાર્યદેવના ગુણ ગાતી હતી, તે જાણે આચાર્ય દેવના ગુણને ગાવા માટે મેરુપર્વતથી પૃથ્વી ઉપર આવેલી સિદ્ધાંગનાઓ (કિન્નરીઓ) ન હોય ! ૬૪ .