________________
सर्ग १३ श्लो० ६०-६१]
हीरसौभाग्यम्
तदा कुमारीभिरभासि भास्वन्मुक्तामणीस्वर्णविभूषणाभिः । इवानुजाभिः सुरराजसूनो रिरंसयोर्वीतलशालिनीभिः ॥ ६ ॥
तदा तस्मिन्व्यतिकरे भास्वन्ति दीप्यमानानि मुक्तानां लघुस्थूलप्रमाणादीनां मुक्ताफलानां मणीनां करतलपदमरागेन्द्रनीलहीरकमुख्यानां रत्नानां स्वर्णानां श्वेतरक्तपीतवर्णकनकानां विभूषणान्याभरणानि यासां तादृशीभिः कुमारीभिरनूढाष्टनवदशवर्षदेशीयबालिकाभिरभासि शुशुभे । उत्प्रेक्ष्यते-रिरंसया चलवयस्त्वेन क्रीडां कर्तुमिच्छया उर्वीतलं भूमण्डल शालन्ति सेवन्ते इत्येवंशीलाभिः सुरराजसूनार्जयन्तस्यानुजाभिलघुभगिनीभिरिव । स्वसुहृद्धिः सम क्रीडां कर्तु कौतुकात्कृतानेकमूर्ति भ्रातरं जयन्तं विभाव्य तद्दर्शनोत्पन्नाद्वैतात्मकौतूहलाकलितरसिकमानसतया जयन्तलघुभगिन्या जयन्त्या अपि कृताभिः अनेकाभिमूर्तिभिरिवेत्यर्थः । अत एताः सर्वा अपि लघुभगित्य एव ॥
શ્લેકાર્થ
તે અવસરે દેદીપ્યમાન હીરા, માણેક, મોતી અને સુવર્ણના અલંકારોથી સુશોભિત કુમારિકાઓ શોભતી હતી. તે જાણે અનેક શરીરને ધારણ કરીને આવેલા પિતાના ભાઈ જયંત (ઈદ્રપુત્ર)ને જોઈને બાલસ્વભાવે રમવાની ઈચ્છાથી પૃથ્વીતલ ઉપર આવેલી યંતની લઘુભગિનીઓ ન હોય ! છે ૬૦
परम्पराभिः पुरसुन्दरीणां राजी जनानामनुगम्यते स्म । महे मुनीन्दोः शरदीव राजमरालमाला कलहंसिकाभिः ॥ ६१॥
मुनीन्दोः सुरेर्महे प्रवेशोत्सवे जनानामागराफतेपुरादिनगरनागराणां राजी श्रेणी पुरसुन्दरीणां परम्पराभिः मेवातमण्डलनागरोणां पङक्तिभिः अनुगम्यते स्म । नराणामनु नार्योंऽपि प्रचेलुरित्यर्थः। काभिरिव । कलहंसिकाभिरिव । यथा शरदि घनात्यये राजमरालमाला राजहंसावली राजहंसीभिरनुगम्यते ॥
हि० सौ०४६