________________
-
३६०
हीरसौभाग्यम्
[सर्ग १३ श्लो० ५८-५९
दधुस्तदा जन्मजुषो विभूषां भूषाविशेषान्वपुषा वहन्तः । श्रिया जितेनामरसद्मनेवोपदीकृताः स्वीयसुरा नगर्याः ॥ ५८ ॥
तदा तस्मिन्नवसरे जन्मजुषो मनुष्या विभूषामलंकारादिकं दधुर्धारयन्ति स्म । किं कुर्वन्तः । वपुषा शरीरेण भूषाणां शोभानां विशेषानतिशयान वहन्तः दधतः । उत्प्रेक्ष्यतेश्रिय लषम्या कृत्वा जितेनाभिभूतेन अमरसझना स्वर्गेण नगर्याः श्रीकर्याः स्वीया आत्मीयाः सुरा देवा उपदीकृता ढौकिता इव ।।
શ્લોકાઈ
તે અવસરે માણસોએ શરીરની શોભા વધારે તેવાં આભૂષણે પહેર્યા હતાં, તે સીકી નગરીની લક્ષ્મી વડે પરાભવ પામેલી સ્વર્ગપુરીએ આભૂષણે યુક્ત પિતાના દેવને ભેટ રૂપે જાણે આવ્યા ન હોય ! ૫૮ છે
आरुह्य वाहं पितुरिन्द्रसूनुः स्निग्धैनिखेलन्किमनेकमूर्तिः ।
पर्याणितप्रौढहयाधिरूढाः शृङ्गारिता भान्ति तदा कुमाराः ॥ ५९ ॥ तदा तस्मिन्प्रस्तावे शृङ्गारो वस्त्रालंकारादिवेषः संजात एषामिति शृङ्गारिताः । अथ वा शङ्गारसहितान्कुर्वन्तीति शृङ्गारयन्ति शृङ्गार्यन्ते स्मेति शृङ्गारिताः कुमारा भान्ति शोभन्ते । किंलक्षणाः । पर्याणं पल्ययनं जातमेषामिति पर्याणिताः । पर्याणयुक्त कुर्वन्तीति पर्याणयन्ति पर्याण्यन्ते स्मेति पर्याणिता वा तथा प्रौढाः प्रगल्भाः पुरुषप्रमाणा वा हया अश्वास्तानधिरुढाः : 'जवेऽपि मानेऽपि च पौरुषाधिकम्' इति नैषधे । उत्प्रेक्ष्यतेपितुरिन्द्रस्य वाहमुच्चैःश्रवसमारुह्याध्यास्य अनेकाः शतशो मूर्तयो देहा यस्य । वाहा अपि अनेका इन्द्रस्य विद्यन्ते । यदुक्तं रघुवंशे–'शतैस्तमक्ष्णामनिमेषवृत्तिभिर्हरिं विदित्वा हरिभिश्च वाजिभिः' इति वाजिबाहल्यम् । एतावता श्वेतनीलवर्णानामपलक्षणादन्यवर्णस: बन्धिनाऽपि संभाव्यन्ते । अथ च जातिवाचित्वादेकवचनम् । अनेकमूर्तित्वेन जयन्तस्यारोहणाश्वा अप्यनेके जाता एव । अथ च स्निग्धैर्मित्त्रेः सम निखेलन क्रीडन् । मित्रा अप्यनेकवर्णाश्वाधिरूढाश्च संभाव्यन्ते । तादृश इन्द्रसूनुर्जयदत्ततामेव ॥
લોકાર્થ તે અવસરે પલાણયુક્ત પ્રૌઢ અશ્વો ઉપર આરૂઢ થયેલા, મિત્રની સાથે કીડા .............. .......
पोताना पिता
. my my ..-1