________________
सर्ग १३ श्लो ० ५६-५७ ] हीरसौभाग्यम्
रथ्यैः सनाथान्मणिशातकुम्भसंदर्भगर्भारथिकैः श्रिताङ्कान् । मरुद्रथान्स्वःसदना इवात्र व्यभूषयन्केऽपि पुनः शताङ्गान् ॥ ५६ ॥
अत्र संमुखागमनात्सवे पुनः केऽपि जनाः शताङ्गान् रथान् व्यभूषयन् अलंकुर्वन्ति स्म । किंभृतान् । रथ्यैरश्वर्वृषभैर्वा सनाथान् सहितान् । पुनः किंभूतान् । मणीनां नानाविधरत्नानां शातकुम्भानां स्वर्णानां संदर्भों रचना गर्भे मध्ये येषाम् । पुनः किंभूतान । रथिकैः रथारोहिभिः श्रितः सेवितः अङ्क उत्सङ्गो येषाम् । के इव । स्वःसदना इव । यथा देवा मरुद्रथान् दिव्यस्यन्दनान् विभूषयन्ति ||
શ્લાકા
જેમ દેવે દિવ્યરથાને શેાભાવે, તેમ કેટલાક માણસેા અશ્વયુકત અથવા वृषभયુકત તેમજ સુવણુની રચના તથા અનેક પ્રકારનાં રત્નાની રચનાથી યુકત એવા રથામાં બેઠેલા શેાભે છે. !! ૫૬ ॥
स्थलप्रफुल्लन्नवहेमपद्मलेखाविभूषामिव लम्भयन्तः ।
#मद्वयीचङक्रमणक्रमेणालंचक्रिरे केचन वार्धिकाञ्चीम् ॥ ५७ ॥
३५९
केचन जना क्रमयोश्चरणयोर्द्वयी तया यच्चङक्रमणं प्रचलनं तस्य क्रमेण परिपाठ्या वार्धिकाञ्च भृमीमचक्रिरे भूषयन्ति स्म । उत्प्रेक्ष्यते - स्थले जलातिरिक्तप्रदेशे . प्रफुल्लन्ति विजृम्भमाणानि नवानि प्रथमप्ररूढानि हैमानि कनकसंबन्धीनि पद्मानि कमलानि तेषां लेखाः श्रेणयस्तासां विभूषां शोभां लम्भयन्तः प्रापयन्त इव । उत्फुल्लस्थलपद्माभभवच्चरणभूषिता' इति चम्पूकथायाम् ||
લેાકાથ
કેટલાક માણસો ચરણુયુગલ વડે ચાલતા શેાભાને પ્રાપ્ત કરતા હતા. તે જાણે સ્થૂલ પ્રદેશ ઉપર નવીન સુવર્ણ કમલની પંકિતઓની શેશભાને પ્રાપ્ત કરાવતા
न होय ! ॥ ५७ ॥