SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ सर्ग १३ श्लोक ५३-५४] हीरसौभाग्यम् ३५७ संघः आगराफतेपुरश्राद्धसमुदायो मुनीन्दोहीरविजयसरेरभिमुखं प्रतस्थे प्रचलति स्म । किं कुर्वन् । अकुण्ठाभत्यभ्यधिकामुत्कण्ठामौत्सुक्यमस्यास्तीत्युत्कण्ठी तस्य भाव उत्कण्ठिता तामाकलयन्दधत् । क इव । कूलंकषाकान्त इव । यथा कूलं मर्यादाभूमी कषन्ति विलिखन्ति पातयन्तीति कूलंकषा नद्यस्तासां कान्तो भर्ता समुद्रो वृद्धा वृद्धि प्राप्ता उपचिता ये कल्लोलास्तरङ्गास्तैः शालते शोभते इत्येवंशीलः सन रजनीश्वरस्य विधोरभिमुखं प्रतिष्ठते ।। શ્લોકાઈ ઉછળતા તરંગથી શેભતે સરિતપતિ સમુદ્ર ભરતી રૂપે ચંદ્રની સન્મુખ જાય તેમ આગ્રા અને ફત્તેપુરને શ્રાવક સમુદાય અતિ ઉત્કંઠા ધારણ કરતા આચાર્ય દેવની સન્મુખ ચાલ્યા. सुवर्णकायानतिवातवेगान्वीलाविशेषैः क्षितिमस्पृशन्तः । कृष्णा इवाघ्यारुरुहुर्वहन्तः श्रियं हरीन्केचन चक्रहस्ताः ॥ ५४॥ केचन जनाः हरीनश्वानारुरुहुः अध्यासामासुः। के इव । कृष्णा इव । यथा नारायणा हरीन् गरुडानारोहन्ति । किं कुर्वन्तो जना नारायणाश्च । वहन्तो धारयन्तः । काम् । श्रियम्, विविधवस्त्राभरणादिशोभां लक्ष्मी च । उभयेऽपि कमलां कलयन्तो वा । पुनः किंभूताः । चक्र रथाङ्गमाकृत्या मूर्तिमद्वा सुदर्शनं हस्ते पाणी येषाम् । किंलक्षणान् हरीन् । सुशो. भना वर्णों रक्तपीतश्वेतादिको येषाम् । यदुक्त हैम्याम्-'सिते तु तत्र कोकाही खोङ्गाहः प्रवेतपिङ्गले । पीयूषवणे सेराहः पीते तु हरयो हये ॥ कृष्णवर्णे तु खुङ्गाहः क्रियाहो लोहितो हयः । आनीलस्तु नीलकोऽत्र त्रियूहः कपिलो हयः ॥' इत्यादिवचनात् । पक्षे स्वर्णकायास्तन्मयत्वात् । यदुक्त हैम्याम्-'पक्षिस्वामी काश्यपी स्वर्णकायः' इति । पुनः किंभूताः । अतिक्रान्ता वातानां वेगो ययेऽपि । पुनः किंभृता । बीकानां धौरितबल्गित-प्लति-उत्तेजित-उत्तरिताभिधानानां धारागतीनां विशेषैरतिशयविविधप्रकारैर्वा । 'धौरित वल्गित प्लुत्युत्तेजितोत्तरितानिव । गतयः पञ्च धाराख्यास्तरङ्गाणां क्रमादिमाः ॥' इति हैम्याम् । क्षितिं क्षोणीमण्डलमस्पृशन्तः पार्दैन संघट्टयन्तः शीघ्रगामितया । अथ वा उत्तालफालललितैर्भूमी स्पृशन्तोऽपि न दृश्यन्ते । यदुक्त नैषधे-'हग्ज्ञेयकेवलनभःक्रमणप्रवाहै हैरलप्यत सहस्रदूगर्वगर्वः' इति । पक्षे खगतया ॥
SR No.005968
Book TitleHeersaubhagya Mahakavyam Part 02
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1977
Total Pages482
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size9 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy