________________
३५६
हीरसौभाग्यम्
सर्ग १३ श्लो ० ५१-५३ ।।
प्रफुल्लत्कमललोचनामिव धरेन्दोरकब्बरस्य वसुधाविधोगिर वाणी हृदये निधाय हृदयं मनो वक्षश्च तस्मिन् स्थापयित्वा वक्षसि वनिता निधीयते मनसि वागवधार्यते च ॥ इति सूरेः प्रवेशोत्सवकरणार्थ साहेविज्ञप्तिस्तदादेशप्राप्तिश्च ॥
શ્લોકાઈ
જેમ કમલાક્ષી એવી સ્ત્રીને વક્ષસ્થલ પર સ્થાપના કરીને આનંદ પ્રાપ્ત થાય તેમ સુરગુરુને પણ અગોચર તેવી બાદશાહની વાણીને હૃદયમાં સ્થાપન કરીને થાનસિંહ આદિ શ્રાવકે અત્યંત હર્ષિત થયા. ૫૧
निमृत्य पृथ्वीपुरहूतपार्धात्संघस्य चाथाकथयन्नुदन्तम् । सोऽपि प्रसत्प्रमदामृताब्धौ मराललीलायितमाततान ॥ ५२ ॥
अथ साहिनाज्ञाप्रदानानन्तरं स्थानसिंहादयः श्राद्धाः पृथिवीपुरहूतस्य साहेः पार्धान्निवृत्य पश्चाद्वलयित्वा संघस्य समग्रश्राद्धश्रीद्वार्जनवर्गस्य उदन्त भूपतिसंबन्धिनं । वृत्तान्तमकथयन्निवेदयन्ति स्म । पुनः संघोऽपि । श्रुत्वेत्यध्याहार्यम् । प्रसर्पन्वर्धमानो यः प्रमोदो हषः स एवामृताब्धिः क्षीरसमुद्रस्तस्मिन्मराललीलायित राजहंसविलसितमाततान कुरुते स्म । 'हंसासाहतपद्मरेणुकपिशक्षीरार्णवाम्भोभृतैः' इति स्नातस्यास्तुतौ । परमानन्दमेदुरीभाव बभारेत्यर्थः॥
શ્લોકાથ
ત્યાર પછી થાનસિંહ આદિ શ્રાવકેએ બાદશાહ પાસેથી પાછા ફરીને સર્વ સમાચાર સંઘને નિવેદિત કર્યા. આવા શુભ સમાચાર સાંભળીને સમસ્ત શ્રાવક સમૂહ અત્યંત આનંદરૂપી ક્ષીરસમુદ્રમાં રાજહંસની માફક મસ્ત બની ગયા. પર છે
अथ फतेपुरसंघस्य संमुखगमनारम्भः
संघः प्रतस्थेऽभिमुख मुनीन्दोरुत्कण्ठितामाकलयान्नकुण्ठाम् । कुलंकषाकान्त इव प्रवृद्धकल्लोलशाली रजनीश्वरस्य ॥ ५३॥