________________
३५२
हीरसौभाग्यम्
[सर्ग १३ श्लो ० ४३-४५
'यादःमोतोवानंदीशः' इति हैम्याम् । माघे मघनसमयावसाने हरिणा नारायणेन दत्तां विश्राणिताम् अत एव प्रीतेभ्यः यदर्थ समेता सा सिद्धिः सुराणां समजनि ततः प्रीति प्राप्तेभ्यः सुधाममृतमधिगत्य प्राप्य मनसि मोदमाधत्त दधौ ॥
કાર્થ
સમુદ્રનું મંથન થયા બાદ નારાયણ પાસેથી દેવોને સુધાની પ્રાપ્તિ થયાથી જેમ ઈન્ડે હર્ષ ધારણ કર્યો હતો, તેમ આચાર્ય દેવે સીક્રી નગરીનાં શ્રાવકો પાસેથી વિમલહર્ષ ઉપાધ્યાયનું બાદશાહ સાથેનાં મિલનના સામાચાર જાણીને હૃદયમાં અત્યંત આનંદ ધારણ કર્યો. આ ૪૩ છે
पवित्रयस्तीर्थः इवाध्वजन्तून्पुरेऽभिरामादिमवादनाम्निः । यावत्समेतः प्रभुरेत्य तातड्राग्याचकेन्द्रेण नतः स तावत् ॥ ४४ ॥
स प्रभुहरिसूरिस्तावत्तस्मिन्नेव समये द्राक् शीघ्रमागत्य फतेपुरादभ्येस्य विमलहौंपाध्यायेन नतो नमस्कृतः । कदा । यावद्यस्मिन्नेव समये अभिरामा इति पदमादिम यत्र तादृग्वाद इति नाम यस्य तादृशे पुरे एतावता अभिरामवादनगरे समेतः सम्यक् सुखेन आयातः । किं कुर्वन् । तीर्थ इव । तीर्थशब्दः पुनपुंसके । 'प्रस्थ तीर्थ प्रोथमलिन्दः' इति लिङ्गानुशासने । शत्रुजयादिरिव अध्वजन्तून्मार्गवासिनेा मनुष्यान् पवित्रयन् पावनीकुर्वन तीर्थमपि अध्वना मार्गेण कृत्वा समायातान्यात्रिकाल्लोकान्पुनाति ॥
શ્લોકાઈ
જેમ શત્રુંજય આદિ તીર્થ યાત્રિકોને પવિત્ર કરે છે, તેમ “અભિરામવાદ' નામના નગરમાં ભાવિકને ધર્મદેશના વડે પવિત્ર કરતા એવા આચાર્ય મહારાજને ફતેહપુરસિકીથી આવીને વિમલ હર્ષ ઉપાધ્યાયે વંદન કર્યું. ૪૪
मधोः पिकीकान्त इवैष युष्मत्समागमं काङ्क्षति भूमिकान्तः । तद्वाचकेनेत्युदितो व्रतोन्द्रा फतेपुरोपात्तभुवं बभाज ॥ ४५ ॥