________________
३५०
हीरसौभाग्यम्
[सर्ग १३ श्लो० ३९-४१
कल्याणवान्कुत्र कियच्च दूरे कदायियाः पुनरस्ति मूरिः । साहिस्तदोदन्तममुं मुनीन्दोः स प्राश्रयत्सख्युरिवातिहृष्यन् ॥ ३९ ॥
तदा वाचकमिलनव्यतिकरे हृष्यन् मनसि प्रमोद प्राप्नुवन् साहिरकम्बगे मुनीन्दोहीरस्ररेरमुमिहैव वृत्ते कथ्यमानमुदन्तं समाचार प्राश्नयत्पृच्छति स्म । कस्येव । सख्युरिव । यथा कश्चित्सखा स्वमित्वस्योदन्तं प्रश्नयति । तमेवोदन्तप्रश्नमाह–स सरिः कल्याणवान् कुशलीवर्तते । पुनः सूरिः कुत्र स्थाने पुरे ग्रामे वा अस्ति । पुनः कियहरे विप्रकृष्टे स्थाने वर्तते । पुनः कदा कस्मिन्काले मासे दिने अवसरे वा आयियासुरत्रागन्तुमिच्छुरस्ति ।
લોકાઈ
જેમ કેઈ પ્રિય પિતાનાં પ્રિય મિત્રનાં કુશળ સમાચાર પૂછે, તેમ અકબર બાદશાહે હર્ષિત થઈને વિમલહર્ષ ઉપાધ્યાયને આચાર્ય દેવના કુશળ સમાચાર પૂછળ્યા ? કે “આચાર્ય દેવ કુશળ છે ને? કેટલે દૂર છે? કયા સ્થાને છે ? ક્યારે પધારવાના? આ રીતે પ્રશ્નો પૂછયા. . ૩૯
प्रभुः शुभंयुर्वरिवर्ति नीतिशालीव साङ्गानगरं पुनानः । वितिष्ठते वर्त्मनि नातिदूरे विभूषितो वर्मणि वार्धकेन ॥ ४० ॥ शनैः शनैस्तत्पथि सञ्चरिष्णुः स्वल्पैः समायास्यति वासरैः स। तरुक्त इत्यागममीहमानः स वाचकेन्द्रं विससर्ज साहिः ॥ ४१॥
स साहिचिकेन्द्रं विससर्ज पश्चात्प्रेषयति स्म । किं कुर्वाणः । प्रभोः सरेरागमं स्वपुरे पादावधारणं समीहमानो वाञ्छन् । पुनः किंभूतः । तेनोपाध्यायेनेत्यमुना प्रकारेणोक्तो दत्तोत्तरः । इति किम् । हे साहे, प्रभुहीरविजयसरिनीत्या न्यायेन शीलते शोभते इत्येवंशीलस्तादृक् राजेव शुभंयुः शुभयुक्तः कल्याणवान् वरिवर्ति अतिशयेन कुशली वर्तते । पुनरधुना साङ्गानगर सांगानेरनाम पुर पुर्नानः पवित्रीकुर्वाणोऽस्ति । हे साहे, नातिदूरे नेदीयस्येव वर्त्मनि मार्गे वितिष्ठन्ते । पुनः वर्मणि स्वशरीरे वार्धकेर वृद्धावस्थया विभूषितः शोभितः । यदुक्तम्-'अलंकरोति हि जरा राजामात्य भिषग्यतीन्' इति सूक्तेः । तत्तस्माद्वार्धककारणात् पथि मार्गे मन्द मन्द शनैः शनैः संचरिष्णुः सचरणशीलोऽस्ति । तथा स्वल्पैरेव वासरैः स्तोकैरेव दिनैः समेता श्रीमत्पाश्वे समायास्यति ॥ इति विमलहर्षोपाध्यायस्य साहिना मिलनगोष्ठीपश्चादागमनानि ॥