________________
सर्ग १३ श्लो० ३६-३८]
हीरसौभाग्यम्
३४९
अथेत्यपरप्रारम्भे मेदिनीपुरात्प्रभोः प्रस्थानात्प्राक् पूर्व भूपं प्रति प्रहितः प्रेषितो विमल इति पदमादौ यस्य तादृग्विधो हर्ष इति नामा श्रियोपाध्यायपदशोभषा सहितो वाचकेन्द्र एतावता विमलहर्षोपाध्यायः तावत्समय एव फतेपुरे अगाद्गच्छति स्म । जगामैत्यर्थः । किंलक्षणः । विदग्धवृन्देन पण्डितमण्डलेनानुयातः । अनुगम्यमान इत्यर्थः । क इव । सैन्येश इव । यथा चक्रवर्तिना स्वमित्तमिलनार्थ कश्चित्सैन्येन कटकेनानगतः प्रहितः सेनापतिश्चक्रिमित्रनगरे गच्छति । तावत्कुत्र । यावद्वाचंयमानां मुनिनां सार्वभौमश्चक्रवर्ती यावता समयेन साङ्गां नगरं पवित्रीकरोति पुनाति । किं कर्तुमिच्छुः । फतेपुरं गन्तुमिच्छुः श्रीकरीनगरी यातुकामः । उत्प्रेक्ष्यते-सागरमेखलायाः समुद्रपर्यन्तभूमेः वस्वोकसारामिव धनद नगरीमिव ॥ युग्मम् ॥
શ્લોકાર્થ
જેમ ચક્રવર્તી પિતાના મિત્ર રાજાને મળવા માટે સૈન્ય વડે અનુસરતા એવા સેનાપતિને પ્રથમ મિત્રરાજાની નગરી તરફ મોકલે, તેમ આચાર્યદેવના પ્રયાણ પહેલાં રાજા તરફ મોકલેલા વિદ્વદુમંડળી વડે અનુસરાતા વાચકેન્દ્ર વિમલહર્ષ ઉપાધ્યાય ફતેપુર સિકી નગરીમાં પધાર્યા, ત્યારે આચાર્યદેવે “સગા” નામના નગરને પવિત્ર કર્યું. તે સાંગા નગરી જાણે સમુદ્રની મેખલા વિષે રહેલી ધનદપુરી અલકા ન હોય (तेकी ती ) ॥ ३९ ॥ ७ ॥
संस्निह्यतश्चक्षुरिव प्रियं स्वं श्रीपातिसाहिं मिलति स्म पूर्वम् । गोष्ठीमनुष्ठाय पुनः सधा प्रामोदयत्प्रीतमना महीन्द्रम् ॥ ३८ ॥
___स विमलहर्षोपाध्यायः पूर्व सूरिमिलनात्प्राकू साहिमकब्बरपातिसाहिं मिलति स्म । किमिव । चक्षुरिव । यथा संस्निह्यतः स्नेहातिशय बिभ्राणस्य नयनं स्वप्रिय निजमनारुचित प्रति गत्वा तदङ्गसंगमात्पूर्वमेव मिलति पुनर्मिलित्वा अनन्तरं धा धर्मस. बन्धिी गोष्ठी मिथो वार्तामनुष्ठाय कृत्वा प्रीतमनाः स्वयं हृष्टमानसः सन् महीन्द्र पातिसाहिं प्रामोदयत्प्रह्लादयामास ।।
શ્લોકાર્થ
જેમ પ્રિયજન પ્રત્યે પૂર્વે પ્રેમદૃષ્ટિ મળે, તેમ આચાર્ય દેવની પહેલાં વિમલહર્ષ ઉપાધ્યાયે અકબર બાદશાહને મળી પરસ્પર ધમ ગોઠી કરીને બાદશાહને ખુશ કર્યો. એ ૩૮