________________
[सर्ग ९ श्लो० ५६-५८
हीरसौभाग्यम्
२५
प्रातः प्रभातकाले शोणिमा प्रभातसंध्याराग उद्ययौ प्रकटीबभूव । उत्प्रेक्ष्यते-प्राची पूर्वदिश प्रियां स्वजायाम् । 'कौशिकः पूर्वदिग्देवाप्सरःस्वर्गशचीपतिः' इति हैम्याम् । पूर्वदिक्पतित्वेन उपभुज्य नक्तं भुक्त्वा । निजमुखमितः स्मेरं धत्ते हरेमहिषी हरित' इति नैषधे । दिवं स्ववाससदनं त्रिदिवं व्रजता गच्छता वज्रिणा शक्रेण व्युत्सृष्टं नीरसत्वेनात्ममुखात्त्यक्तं ताम्बूलं सचूर्णखदिरपूगनागवल्लीदलचर्वणपिण्डमिव ॥
શ્લેકાર્થ પ્રાતઃકાલે પ્રભાતિક સંધ્યા પ્રગટ થઈ તે સંધ્યા જાણે ! પૂર્વદિશારૂપ પિતાની પ્રિયા સાથે ઉપભોગ કરીને સ્વર્ગમાં જતા ઈન્દ્ર ચાવીને નાંખી દીધેલું તાંબુલ ન હાય ! પદા
प्रातःसंध्या व्यभावतिहेतिर्मुक्ता विवस्वता । हन्तुं महाहवोन्मादिमन्देहानिव कोपतः ॥५७॥
प्रात. प्रत्यूषसंबन्धिनी संध्या प्रभातसमयप्रादुर्भूतशोणिमा व्यभात्संध्यारागो भाति स्म । उत्प्रेक्ष्यते--महति प्रौढे प्रबले आहवे संग्रामे उन्माद्यन्ति उन्मत्ता भवन्ति इत्येवंशीला ये मन्देहा नाम मार्तण्डे इति यक्षभूतराक्षसविशेषाः कोपतः क्रोधातिरेकातान् स्वप्रत्यनीकान् हन्तुं व्यापादयितुं भस्मसात्कतुं विवस्वता भास्वता मुक्ता तान्प्रति प्रहिता क्षिप्ता वहिहेतिः कार्शानवं शास्त्रमिव । 'इह हि समये मन्देहेषु व्रजन्त्युवदज्रताम्' इति नैषधे । तथा 'तिस्रः कोटयोऽधकोटी च मन्देहा नाम राक्षसाः । उदयन्त सहस्रां. शुमभियुध्यन्ति ते सदा ॥' इति नैषधवृत्तौ ॥
કાર્થ મહાન સંગ્રામમાં ઉન્મત્ત બનેલા સૂર્યો, અંધકારરૂપ પિતાના શત્રુ રાક્ષસને હણવા માટે રેષથી મૂકેલા અગ્નિરૂપ શસ્ત્ર જેવી પ્રાતકાલીન સંધ્યા શેભે છે. પછા
संध्यारागारुण जैनं पदं प्रातर्व्यराजत ।
अपूजि निर्जरैर्भक्तिप्रवैः किं कुङ्कुमद्रवैः ॥५८॥ __ जिनोऽईन विष्णुश्च तस्येदं जनं तादृक्पदं विष्णुपदमाकाशं प्रातः प्रभाते संध्यारुण संध्यारागेण कृत्वा रक्तीभूतं व्यराजत विराजते स्म । उत्प्रेक्ष्यते-भक्त्या सेवाशक्त्या कृत्वा प्रवैननमनशीलभूतैर्निर्जरैः सुपर्वभिः कुङ्कुमैघुसृणपकैवैरपूजि कि पूजितमभ्यचितमिव विलिप्तमिव वा ॥