________________
सर्ग १३ श्लो ० ३२-३४ ]
हीरसौभाग्यम्
३४७
प्रस्थापितः सिद्धपुरात्पुरोऽपि साहेरभिप्राय बुभुत्सया यः । मिमेल तस्मिन् विमलादिहर्षोपाध्यायसिंहो ग्रहवदिवीन्दोः ॥ ३२ ॥
विमल इति पदमादौ यस्य तादृशो हर्षः स एत्रोपाध्यायेषु मिंहः पञ्चाननः तस्मिन्मेदिनीपुरे मिमेल मिलति स्म । अर्थादस्य सूरेः । किंवत् । महवत् । यथा बुधग्रहो दिवि गगने इन्दोमिलति । विमलहर्षः किलक्षणः । सिद्धपुरात्पूर्व सिद्धपुरनगरात्पुरोऽग्रे प्रस्थापितोऽपि। कया । माहेरकब्बरपातिसाहेहदयवर्ती य आशयः अभिप्रायः तस्य बुभुत्सया बोधुमिच्छया । ज्ञातुमित्यर्थः ॥
શ્લેકાર્થ
ઉપાધ્યાયોમાં સિંહસમાન “વિમલ હર્ષ” નામના ઉપાધ્યાયે અકબર બાદશાહના અભિપ્રાયને જાણવાની ઇચ્છાથી સિદ્ધપુરથી આગળ પ્રયાણ કર્યું હતું તે ઉપાધ્યાયજી જેમ આકાશમાં બુધ ગ્રહ ચંદ્રને મળે તેમ મેડતા નગરમાં આચાર્યદેવને મળ્યા તા૩રા
भट्टारकेन्द्रो नगरादमुष्मादेतं पुनर्वाचकवासवं । श्रीसीहादिराज द्विमलाहव विज्ञोत्तसेन युक्तं गुरुणेव साक्षात् ॥ ३३॥ प्रेषीत्पुरस्तुर्णमपि क्षितीन्द्रं ज्ञातुं तदीयाशय मात्मनाऽसौ । प्रज्ञात्मदर्शप्रतिबिम्ब विश्वपदार्थ सार्थ स्वमिव प्रधानं ॥ ३४ ॥
असौ भट्टारकाणामिन्द्रः पुनर्द्वितीयवार पूर्व प्रस्थापनापेक्षया तूर्ण शीघ्रममुष्मान्मेदि. नीपुराभिधानान्नगरादेत पूर्वोक्त वाचकवासवं विमलहर्षोपाध्याय पुरोऽग्रे प्रेषीत् प्रहिणोति स्म । किं कर्तुम् । क्षितीन्द्रमकब्बरराजमपि पुनरात्मना स्वेन तदीयाशय साहेनिजस्याकारणाभिप्राय किमर्थमह्माकारितोऽस्मीति साहिमनःपरिणाम ज्ञातुमवबोदधम् । किंलक्षणम् । वाचकवासवम् । श्रिया शोभया कलितो योऽसौ सीहस्तेनादिपदभूतेन राजन्ती शोभमाना विमल इत्याहा नाम यस्य तादृशेन विज्ञेषु विद्वत्सु उत्तंसेन शेखरेण श्रीसीहविमलप्रज्ञांशेन युक्त सहितम् । उत्प्रेक्ष्यते-साक्षात्प्रज्ञाप्रागल्भ्यादगुरुणा बृहस्पतिनेव शक्रोऽपि तावद्वाचस्पतिना संयुक्त एव स्यादिति । अथोपाध्यायस्योत्प्रेक्षा उत्प्रेक्ष्यते-प्रज्ञा स्वप्रतिभा सवात्मदर्शो दर्पणं तत्र प्रतिबिम्बति संक्रामतीत्येवंशीला विश्वे समस्ता विश्वेषां वा त्रयाणां जगतां पदार्थानां सार्थाः समूहा यस्य तादृशं स्वमात्मीय प्रधानमिव मन्त्रिणमिव ॥ युग्मम् ॥ इति मेदिनीपुरागमन फलपार्श्वनाथयात्रावाचकप्रस्थापन च ॥