________________
सर्ग १३ श्लो० २८--२९]
हीरसौभाग्यम्
३४५
तं सादिमाद्यः सुरताननामाभ्युपेत्य भूपो बहु मन्यते स्म । मणिः सुराणां गुणगौरवेण कुत्रार्चनागोचरतां न गच्छेत् ॥ २८॥
सादिमा इति पदमाद्य प्रथमभव यत्र तादृशः सुरतान इति नामा । साद्रिमासुलताननामा भूपो मुद्गलेन्द्रः मेदिनीपुराधिपः अभ्युपेत्य सूरीन्दोः संमुखमागत्य तं हीरसूरिं बहु मन्यते स्म बहुमान प्रदत्ते स्म । तत्र दृष्टान्तमाचष्टे-गुणानां दानाभिलषितमानादीनां गौरवेण माहात्म्येन सुराणां मणिश्चिन्तारत्न कुत्र क्व क्व स्थाने अर्चनायाः पूजाया: गोचरतां योग्यतां न गच्छेन्न प्रयायात् । अपि तु सर्वत्रापि पूजां प्राप्नोतीत्यर्थः ॥
શ્લેકાર્થ
મેડતા નગરના અધિપતિ સાદિમ નામના સુલતાને સન્મુખ આવીને આચાર્ય દેવનું બહુમાન કર્યું. ગુણ અને મહિમાથી યુક્ત એવું ચિંતામણિ રત્ન ક્યા કયા સ્થળે પૂજાતું નથી ? ૨૮
पुरं पुनानेऽम्बरवन्मुनीन्द्रे महामहोऽभूदिह मानवानाम् । तदास्यलावण्यसुधाधयानां ज्योत्स्नाप्रियाणामिव रोहिणीशे ॥ २९॥
मुनीन्द्रे हीरसरिवासवे अम्बरवद्गगनाङ्गणमिव पुर मेडताख्यनगरं पुनाने पवित्रीकुर्वाणे सति तदा सरिसमागमनावसरे आस्ये सरिवदने यल्लावण्य सौन्दर्य लवणिमैव सुधाममृतरस धयन्ति पिबन्तीति तेषां तादृशानां मानवानां मेडतापुरवासिभविकजनानां महामहोऽत्युत्सवोऽभूत्संजायते स्म । केषामिव । ज्योत्स्नाप्रियाणामिव । यथा चन्द्रोऽमृतपायिनां चकोराणामम्बरमाकाशं पुनाने रोहिणीशे चन्द्रमसि महोत्सवो भवेत् ॥
શ્લોકાર્થ
જેમ ચંદ્ર આકાશને પવિત્ર કરતો “ચકેર” પક્ષીઓ માટે મહત્સવરૂપ બને છે તેમ મેડતા નગર રૂપ આકાશને પવિત્ર કરતા આચાર્ય ભગવંત પિતાના મુખરૂપી ચંદ્રનું સુધાપાન કરી રહેલા માનવેને માટે મહા મહત્સવ રૂપ બન્યા ! ૨૯
हि० सौ० ४४