________________
सर्ग १३ श्लो० २०-२२]
हीरसौभाग्यम्
३४१ .
આવે છે.) ભવસૂદનઃ સંસારનો ઉચ્છેદ કરનારા, પદ્માસન-મંડપની મધ્યમાં આકૃતિ રૂપે કમળ રહેલું છે. દેવાધિદેવ હેવાથી અધિષ્ઠાયક આદિ દેવ વડે સેવાતા એવા પ્રજાના પતિ અર્થાત્ ત્રણ જગતના પતિ બીજા બ્રહ્મા ન હોય ! ૨૦ છે
चातुर्गतीयातिमहान्धकूपोद्दिधीषयाशेषशरीरभाजाम् । मूर्तीश्चतस्रः कलयन्निवास्मिन्मुनीन्दुनादर्शि युगादिदेवः ॥ २१ ॥
मुनीन्दुना सूरिणा अस्मिन् धरणसंघपतिप्रासादे युगादिदेवः श्रीआदिनाथः अदर्शि लोचनगोचरीकृतः । किं कुर्वन् । चतरूनः चतुःसंख्याका मूर्तीः प्रतिमाः कलयन् दधत् । उत्प्रेक्ष्यते-चातुर्गतीयाश्चतस्रस्तिर्यकरकमन्जनिर्जराणां गतयः उत्पत्तिस्थानानि तत्संबधिन्यो या अर्तयः शारीरिक्यो मानस्यो वा पीडास्ता एव महान्तोऽगाधा अन्धकूपास्तपोनिचिता अवटास्तेभ्य उद्दिधीर्षया उद्धतमिच्छया इव । केषाम् । अशेषाणां समस्तानामपि शरीरभाजामर्थादज्ञानादन्धकूपान्तःपततां भविकजनानाम् ।।
શ્લેકાર્થ
આચાર્ય દેવે ધરણિવિહારમાં ચારમુખ ધારણ કરનારા એવા યુગાધિદેવ શ્રી આદિ નાથ ભગવંતનાં દર્શન કર્યા. તે જાણે દેવ, મનુષ્ય, તિર્યંચ અને નારક રૂપ ચાર ગતિનાં દુઃખ રૂપી અંધારા કૂવામાં પડેલા સર્વે જીવેનો ઉદ્ધાર કરવા માટે ચારમુખ ધારણ કર્યા ન હોય ! ૨૧ છે
निःश्रेयसस्येव सुखं जिनेन्द्रं प्रदक्षिणीकृत्य पतिर्यतीनाम् । सुधासनाभीभवदुक्तियुक्तेभक्तेः स्तुतेर्गोचरयांचकार ॥ २२ ॥
यतीनां पतिनिन्थनाथो हीरसूरिः जिनेन्द्र श्रीऋषभदेव भक्तेः सेवासक्तिवशात् सुधायाः पीयूषस्य सनाभीभवन्त्यः सगोत्राः संजायमानाः उक्तीनां वाक्यानां वचनप्रपश्चानां युक्तयो रचना यस्यां तादृश्याः स्तुतेः स्तोत्रस्य गोचरयांचकार । तुष्ठावेत्यर्थः । 'गोचरयन्ति न वाचो यच्चरितं चन्द्रिकारुचिरम् । वाचस्पतेर्वचस्वी को वान्यो वर्णयेन्मनुजः।। इति हस्तिमतीनगरीचैत्यप्रशस्तौ । किं कृत्वा । प्रभु वृषभस्वामिन प्रदक्षिणीकृत्य युगादिदेवस्य तिसः प्रदक्षिणाः प्रदाय । उत्प्रक्ष्यते-निःश्रेयसस्य निश्रित श्रेयो नि:श्रेयसं मोक्षस्तस्य सुखं सातमेव प्रकर्षणानुकूलीकृत्य आत्मायत्तीकृत्य । 'दाक्षिण्यमनुकूलता इति हैम्याम् । दक्षिणोऽप्युनुकूल इति ॥