________________
हीरसौभाग्यम्
શ્લેાકા
પુતળીએના પુષ્ટ હાવભાવ આદિ વિલાસેાને જોવાથી લજ્જિત બનેલું. સમસ્ત ઇન્દ્રનું અંતઃપુર જેમાં છે, તેવું અષ્ટાપદ ( કૈલાસ પર્વત ) ઉપર રહેલું ભરત ચક્રવતી એ બંધાવેલુ સિંહ નિષધા” નામનું ચૈત્ય અથવા શભુનુ મંદિર જાણે પવ ત ઉપરના નિવાસથી ઉત્પન્ન થયેલાં દુ:ખને નહી. સહી શકવાથી આ ભૂમિ ઉપર આવીને (ધરણ વિહાર રૂપે) રહી ગયું ન હાય ! ! ૧૯ ૫
""
३४०
[ सर्ग १३ श्लो० १९-२०
ध्रुवं दधानं चतुराननीं च हिरण्यगर्भ भवसूदन च । पद्मासनं स्वः सदुपास्यमानं पतिं प्रजानामपरं किमुर्व्याम् ॥ २० ॥
चैत्यमुत्प्रेक्ष्यते - उर्व्या भूमीभुवने अपरमेकः ब्रह्मलोके सृष्टिकर्तास्ति अन्य प्रजानां पति धातारम् । किंभूत प्रजानां पतिम् । ध्रुवं नित्यस्थायुकं स्थिरं च । पुनः किं कुर्वाणम् । दधानं धारयन्तम् । काम् । चतुराननीम् । चतुर्णां पूर्वपश्चिमदक्षिणोत्तरदिग्वतिनामाननानां वत्काणां समाहारश्चतुराननी तां चत्वारि मुखानि बिभ्राणम् । चतुर्मुखत्वात् । पुनः किंभूतम् । हिरण्यं स्वर्ण गर्भे मध्ये यस्य । प्रायः प्रासादसरोवापीकूपादौ जीर्णोद्धारार्थं तत्स्वामिना निधीन्क्षिपन्तीति स्थितिः । यदुक्तं चम्पूकथायाम् — 'कुपितकपिकुलाकुलितलङ्केश्वर किंकरा इव भग्नकुम्भकर्णघनस्वापाः कूपाः' । 'भग्नाः कुम्भानां घटानां कर्णाः काना इति प्रसिद्धा यत्र । तथा घनाः प्रचुराः स्वाः स्वकीयाः पातालमूलोत्था न तु प्रवाहादिना प्रविष्ठा आपः पानीयानि येषु । अथ व घनस्वा बहुद्रव्या आपो जलानि येषु । प्रायो वापीकूपादौ जीर्णोद्धारार्थं निधिं क्षिपन्तीति स्थितिः । पक्षे भग्नः कुम्भकर्णस्य रावणानुजस्य घनस्वापो घोरनिद्रा येः' इति चम्पूटिप्पनके । च पुनः किंभूतम् । भवस्य संसारस्य सूदनं निर्नाशकम् । पद्मानां मण्डपान्तराले अन्यत्र वा आकृतयः पूजादिभिर्वा आसन' स्थानम् । पुनः किंभूतम् । स्वः द्धिः अधिष्ठातृदेवैर्नमनक्रीडागतैर्वा सुरैरुपास्यमान' सेव्यमानम् । पक्षे ध्रुवनामा । चतुर्भिर्मुखयुक्तः हिरण्यगर्भनामा भवान्तकृदभिधानः पद्ममरविन्दमासने पीठे यस्य । सुरश्रेष्ठत्वाद्देवसेव्यः ब्रह्म ।। इति सप्तभिरादिकुलकम् ॥
Àાકા
વળી આ ચૈત્ય જાણે પૃથ્વી ઉપર ખીજા બ્રહ્મા ન હોય ! ध्रुवः નિત્યસ્થિર નામને ધારણુ કરનારા, ચતુરાનનઃ ચતુર્મુખ વડે યુક્ત હિરણ્યગઃ જેની મધ્યમાં સુવણુ છે. (પ્રાયઃ પ્રાસાદ, વાવ, કૂવા, સરાવર આદિનઃ જીર્ણોદ્ધારને માટે ભૂમિમાં સુવણ નાખવામાં