________________
सर्ग १३ श्लो ० १८-१९ ]
हीरसौभाग्यम्
३३९
चेतश्चमत्कारकरीस्त्रिलोक्या लक्ष्मीः समालोक्य रसातिरेकात ।
संस्तम्भिताङ्गीभिरिवामरीभिः पाञ्चालिकाभिः प्रविभासमानम् ॥ १८ ॥ पुनः किं कुर्वाणम् । प्रविभासमान प्रकर्षेण दीप्यमानम् । अतिशायिशोभां दधानमित्यर्थः । काभिः । पाञ्चालिकाभिः शालभञ्जीभिः । उत्प्रेक्ष्यते-त्रिलोक्या भुवनत्रितयस्यचेतसामन्तःकरणानां चमत्कारमाश्चर्यरसातिशयं करोतीति तादृशीर्लक्ष्मीरतिशायिशोभाः समालोक्य सम्यक् सर्वाङ्गीणतया निर्वर्ण्य । रसातिरेकात्केवलं दर्शनेन विस्मयाद्वैततया संस्तम्भिताङ्गीभिर्निश्चलीभूततनूलताभिरिव । अथ वा बिमुक्तगमागमस्फुरणवार्तान्योन्याषलोकनाघशेषापरशरीरव्यापाराभिरमरीभिर्देवाङ्गनाभिरिव ॥
પ્લેકાર્થ
આ ચૈત્યમાં વિશિષ્ટ શોભા ધારણ કરનારી પાંચાલિકાઓ (પુતળીઓ) શોભે છે. ત્રણે જગતના ચિત્તને ચમત્કાર ઉપજાવે તેવી આ પ્રાસાદની સર્વાગ સુંદર લહમીને સાદરપૂર્વક જોઈને દેવાંગનાઓ જાણે તંભિત બની ગઈ છે અર્થાત્ દિવ્ય સુખેને ત્યાગ કરીને મંદિરને જોવામાં જ નિચલ બની ગઈ ન હોય તેવી પુતળીઓ શોભે છે. જે ૧૮
पाच्चालिकाप्रौढविलासवीक्षाहणीयमानधुधवावरोधम् । अष्टापदोत्तीर्णवृषाङ्कगेहमसासहीवादिनिवासजातिम् ॥ १९ ।।
... चैत्यमुत्प्रेक्ष्यते-अद्रौ पर्वते । शैलशिखरे इत्यर्थः । यो निवासो नित्यनिवसनं तस्माजाता या अतिः पीडा चिन्ता शारीरिकी मानसी च तामसासहिः सोढुमशक्तम् । 'अहिर्महीगौरवसासहिर्यः' इति नैषधे । अष्टापदात्स्फटिकपर्वतादुत्तीर्ण भूपीठेऽभ्युपेत वृषाङ्कस्यादिदेवस्य गेह सिंह निष्पधा नाम चैत्यमिव । यद्यपि चतुर्विंशतितीर्थकृतामपि प्रासादोऽस्ति तथा मुख्यवृत्त्या ऋषभदेवस्यैव । यतो भरतचक्रिणा ऋषभदेवसमये भगवन्त स्वतातमेवोद्दिश्य निर्मापितः । अथ च परसमयानुसारितया वृषाङ्कस्येश्वरस्य मन्दिरमेवोत्तीर्ण शंभोः कैलासवासित्वादित्यप्यर्थध्वनिः । किंभूतम् । पाञ्चालिकानां विविधरचनाचारिमापूर्वपुत्रिकाणां प्रौढानां प्रगल्भानां सुरासुरनरोरगगणमनाहारिणां विलासानां विभ्रमाणां वीक्षया दर्शनेनैव हृणीयमानो लज्जां प्राप्नुवन् । 'त्वयानपत्या धरणी हृणीयते' इति नैषधे । 'हृणीक् लज्जायाम्' कणड्डदिधातुः । धुधवानां सर्वेषामपीन्द्राणामवरोधा अन्तःपुराणि यत्र यस्माद्वा ॥