SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ सर्ग १३ श्लो० १५-१६] हीरसौभाग्यम् ३३७ શ્લોકાથ આચાર્ય મહારાજે રાણકપુરમાં ધરણ નામના શ્રેષ્ઠિએ બંધાવેલ ધરણ વિહાર નામના જિનપ્રાસાદને જોયો. તે ધરણવિહાર અતિ ઊંચાઈથી મિત્રતાને ધારણ કરતા વિંધ્યાચલને જોઈને તેને મળવા માટે સમીપે આવેલે જાણે કૈલાસ પર્વત नय! ॥ १४ ॥ विनिद्रनीलाञ्जनिकानमेरुवनीलालकशालमाने । मौलौ प्रणीतं द्रुहिणेन चान्द्रचूडामणी किं धरणीन्दिरायाः ॥ १५ ॥ चैत्यं पुनरुत्प्रेक्ष्यते-धरणीन्दिराया भूमीमण्डललक्ष्म्या मौलौ मस्तके द्रुहिणेन विश्वसृजा प्रणीत विरचित चान्द्राणां चन्द्रकान्तरत्नानां चूडामणीमिव शिखारत्नमिव । किंभूते मौलौ । विनिद्रा विस्मेरा या नीलाञ्जनिकास्तमालतरवः। 'नीलाञ्जनिकाकुसुमकान्ति नितमसि' । तथा निलाजनिकाकुसुमकान्तयः किरातयुवतयः' इतीद द्वयमपि चम्पूकथायाम् । 'निलाजनिकास्तमालाः' इति तट्टिप्पनके । कृष्णकान्तिवृक्षविशेषास्तेषां वनी काननं तद्वत्ते एव नीला अलकाः केशास्तैः कृत्वा शालमाने शोभमाने ॥ શ્લોકાઈ તે ધરણવિહાર જાણે વિકસવાર એવા તમાલ આદિ શ્યામવૃક્ષનાં વનરૂપી શ્યામ કેશે વડે શોભતા પૃથ્વીરૂપી લક્ષ્મીના મસ્તક ઉપર બ્રહ્મા વડે નિર્માણ કરાયેલે ચંદ્રકાંત મણીને ચુડામણિ ન હોય ! ! ૧૫ भूमीन्द्रकुम्भाभिधराणकस्य स्तम्भान्दधानं निजमण्डपान्तः । अनेकपस्फूर्तिभुवः समज्ञास्तम्भानिवैताञ्छिवगोत्रजैत्रान् ॥१६॥ पुनश्चैत्यं किं कुर्वाणम् । निजस्यात्मनो मण्डपान्तः खलामण्डपमध्ये मेदपाटमण्डलाधिपस्य भूमाविन्द्रोपमस्य कुम्भो इत्याभिधा नाम यस्य तादृशस्य राणकस्य । केषांचि दपि राजन्यानां राणो इत्यभिधा प्रोच्यते । ततः कुम्भोराणो इति प्रसिद्धस्य । राज्ञः हि० सौ०४३
SR No.005968
Book TitleHeersaubhagya Mahakavyam Part 02
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1977
Total Pages482
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy