________________
सर्ग १३ श्लो० १०--१२]
हीरसौभाग्यम्
३३५
स सरिस्ततस्तत्पुरतः सीरोहीनगरात्पुरस्तादने प्रस्थितः प्रचलितः सन मार्ग पन्थानं विलङ्गयातिक्रम्य सादडीनाम्नि रे जगाम गतवान् । क इव । चिञ्चिरीक इव । यथा भ्रमरः स्मिताद्विकसितात्प्रसूनात्कुसुमात्प्रचलितः सन् मार्गमुल्लङ्घय गजस्य गन्धसिन्धुरस्य गण्डे कपोलस्थले गच्छति । 'कटेषु करिणां पेतुः पुंनागेभ्यः शिलीमुखाः' इति रघुवंशे । प्रसूमानि त्यक्त्वा भृङ्गा गजेन्द्रगण्डस्थलगलदानवारि पातु समायान्ति ॥
કાર્ય
જેમ ભ્રમર પુખને ત્યાગ કરીને હાથીના ગંડસ્થલથી ઝરતા મજલને પીવાને માટે જાય, તેમ આચાર્ય શિરોહી નળથી આગળ પ્રયાણ કરતા અનુક્રમે “સાદડી' નામના નગરમાં પધાર્યા. ૧૦
प्राग्वागडावन्तिविराटखानमहादिराष्ट्रापरमण्डलेषु । सार्थाधिपेनेव सुतेन सातं विहृत्य लाभाश्च बहुनुपांय॑ ॥११॥ कल्याणराजद्विजयाभिधानोपाध्यायचन्द्रेण समेत्य तत्र । क्रमादबिच्छिन्नतमैः प्रयाणैः श्रीतातपादाः प्रणताः प्रमोदात् ॥१२॥ (युग्मम्)
कल्याण इति पदेन राजद्दीप्यमान विजय इत्याभिधान नाम यस्य तादृशेनोपाध्यायेषु पाचकेषु चन्द्रेण जनाह्लादकत्वेन विधुना । एतावता कल्याणविजयोपाध्यायेनेत्यर्थः । अविच्छिन्नतमॆरतिशयेन खण्डितैः त्वरितत्वरितैः प्रयाणैः प्रतिदिनं पथि प्रस्थानकैः क्रमात् खानलाटगुर्जराळदाद्रिपरिसरदेशोल्लङ्घनप्ररिपाट्या रुमेत्य सादडीपुरे समागत्य श्रीतातपादाः श्रीहीरविजयसूरिचरणारविन्दाः पितृपादाश्च प्रमोदादानन्दोदयात्प्रणता नमस्कृताः । किं कृत्वा । सार्थाधिपेनेव सार्थपतीभूतेन सुतेनेव पुत्रणेव प्राक् पूर्व गुर्जरमालवानां मध्ये वर्तमाना वागडाः । एतावता गुर्जरकच्छमध्यवर्तिनो वागडा निषिद्धाः । तथा अवन्तयो मालषाः विराटाः मालवदक्षिणान्तरालशालिनो 'वइराड' इति प्रसिद्धाः, तथा खाना लाटदक्षिणवर्तिनः, तथा महा इति पदमादौ येषां तादृग्विधा राष्ट्राः । महाराष्टाः ईत्यर्थ: । 'मरहड' इति प्रसिद्धाः । इत्यादिष्वपरेषु गुर्जरापेक्षया अन्येष्वपि मण्डलेषु देशेषु सातं सुखं यथा स्यात्तथा विहृत्य विहारं कृत्वा द्रव्योपार्जनकृते बहुषु जमपदेषु व्यापारार्थं भ्रान्त्वा च पुनर्बहूमनेकान लाभाम्पुण्यान्यमेकधनानि चोपाळ अर्जयित्वा । गृहीत्वेत्यर्थः ।। युग्मम् ॥