________________
सर्ग १२ श्लो० १२८ ]
सौभाग्यम्
दिनानि कतिचित्सूरिगिरीन्द्रतनुजे गिरौ । स्थितौऽर्हध्द्याननिध्यानश्चारणश्रमणेन्द्रवत् ॥ १२८ ॥
३२७
रिगिरीन्द्रस्य हेमाद्रेस्तनुजे नन्दने गिरौ पर्वते अर्बुदाचले कतिचिद्दिनानि कियतो वासरान् यावत्स्थितः अर्हद्दर्शनादिलोभेन तत्र तस्थिवान् । किंभूतः । अर्हतो भगवतो ध्यानेन प्रणिधानेन चित्तैकाग्येण कृत्वा निध्यानमवलोकन यस्य । योगिनो हि स्वहृद. कमले परमात्मन साक्षात्समीक्ष्य ध्यानाद्विरमन्ति इति कुमारसंभवे पार्वतीपाणिग्रहणापूर्वसमये ध्यानव्यतिकरे । अथ वा अर्हतां सर्वतीर्थकृतां ध्यान हृद्गोचरीकरणं स्मरणं वा पौनःपुन्येन । वारंवारमित्यर्थः । दर्शनं चैत्यगमनादिना यस्य । किंवत् । चारणश्रमणेन्द्रवत् । यथा जङ्घाचारणविद्याचरणादिर्यतिपुंगवाः यात्रार्थं गताः कापि शत्रुंजयादिती - पर्वते कानिचिद्दिवसानि तिष्ठन्ति । दिनदिवसवासराः पुंनपुंसकलिङ्गे । श्रूयते तज्जनप दलोकवृत्त्यां पूर्वमष्टाशीतिऋषयः अत्र स्थाने तपः कुर्वाणाः आसन् । तेषां च होमादिसाधनमेका कामधेनुचरन्ती सती महागर्तान्तः पपात । ततस्तां निष्काशयितुमशक्ता ऋषयो गत्वा हिमाचलं याचित्वा तत्पुत्रमर्बुदनामानं महामहीधरमत्रानेषुः । तावतासौ कामगवी स्वपयोभिस्तां गर्तामापूर्य तीर्त्वा च बहिर्निःसरति स्म । ततः पुनर्मास्या धेनोरेतद्गतयां पातो भवतु इत्याशङ्कय ऋषिभिस्तद्गर्तामध्यमर्बुदाद्रिणापूर्यते स्म । तैः स्थापितस्तत्रैव स्थितः सोऽयमर्बुदो हिमाद्रिपुत्र इति तत्पारिपार्श्वकशैवलोकस्य प्रवृत्तिः प्रसिद्धिश्च । तथा वस्तुपालवसतिप्रशस्तावपि 'गौरीवरश्व शुरभूधरसंभवोऽयमस्त्यर्बुदः ककुदमत्रिकदम्बकस्य | मन्दाकिनीघनटे दधदुत्तमाङ्गे यः शालकः शशभृतोऽभिनयं करोति ॥' इति दृश्यते ॥
શ્લેાકાથ
પરમાત્માના ધ્યાનમાં મગ્ન એવા આચાય; ચારણ મુનિઓની જેમ તી દૅશનના લેાભથી અણુ દ્યાચલ ઉપર કેટલાક દિવસેાની સ્થિરતા કરીને રહ્યા. (લેાકેાતિ પ્રમાણે સંભળાય છે કે પૂર્વે આ સ્થાનમાં અઠયાસી (૮૮) ઋષિ તપ કરતા હતા, ત્યારે એકવાર તેઓની કામધેનુ (ગાય) ચરતી ચરતી મોટા ખાડામાં પડી ગઈ. તેને ખાડામાંથી કાઢવા માટે અસમર્થ ઋષિએ હિમાચલ પાસે ગયા. યાચના કરીને હિમાચલના પુત્ર અબુ ધ્રુપવ તને અહીં લાવ્યા. ત્યારબાદ કામધેનુ પેાતાના દૂધથી ખાડાને પૂરીને સ્વયં તરીને બહાર નીકળી. આ ખાડામાં ફરીથી ગાય આદિ કઇ પણ પશુ પડે નહી, આમ વિચારીને ઋષિએએ ખાડાના મધ્ય ભાગમાં અશ્રુ દૃપવ તને સ્થાપન કર્યાં. તે આ હિમાલયપુત્ર અબુદાચલ કહેવાય છે.) ૫ ૧૨૮ ॥