________________
३२८
हीरसौभाग्यम्
[सर्ग १२ श्लो० १२९-१३०
उदयशिखरिणीच श्रीमम्भोजवन्धुविपमविशिखवैरी स्फाटिकोर्वीभृतीव । त्रिदशपतिरिव स्वर्भूधरे सूरिसिंहो हिमशिखरिमुतेऽस्मिन्कांचनामां बभार ॥ १२९ ।।
सरिसिंहो हीरविजयनामा सूरिशार्दूलः अस्मिन्नर्बुदाचलाभिधाने हिमशिखरिसुते तुहिनाचलनन्दने कांचन अनिर्वचनीयामाभां शोभा बभार दधाति स्म । क इव । श्रीमदम्भोजवन्धुरिव । यथा श्रीमान् सर्वज्योतिश्चक्रज्योतिः पराभवनप्रवणप्रतापलक्ष्मीवान अम्भोजबन्धुर्भानुमान उदयशिखरिणि पूर्व पर्वते अद्वैतां शोभां बिभर्ति । पुनः क इव । विषमविशिखवैरीव । यथा विषमाः सोढुमशक्या अथ वा समेतरे पञ्चत्वाद्विशिखा बाणा यस्य स स्मरस्तस्य वैरी प्रतिपक्षः पार्वतीपतिः ईश्वरः स्फटिकस्यायं स्फाटिकस्तादृश उर्वीभृत्पर्वतः एतावता स्फटिकाचले कैलासे । पुनः क इव । त्रिदशपतिरिव । यथा सुरेन्द्रः स्वर्भूधरे मेरुगिरौ असाधारणां भूषां बिभर्ति । 'जाम्बूनदोर्वीधरसार्वभौम' इतीन्द्राभिधानं नैषधे ॥
શ્લેકાર્થ
જેમ સૂર્ય ઉદયાચલ ઉપર મહેશ સ્ફટિકપર્વત (કૈલાસ પર્વત) ઉપર અને ઈન્દ્ર મેરૂ પર્વત ઉપર ભા ધારણ કરે તેમ આચાર્યોમાં સિંહ સમાન હીરવિજયસૂરિએ અબુદાચલ ઉપર કોઈ અનેરી શેભાને ધારણ કરી. છે ૧૨૯ છે
यं प्रास्त शिवाहसाधुमघवा सौभाग्यदेवी पुनः श्रीमत्कोविदसिंहसीहविमलान्तेवासिनामग्रिमम् । तब्राह्मीकमसेविदेवविमलव्यावणिते हीरयुबसौभाग्याभिवहीरसूरिचरिते सर्गोऽभवद्द्वादशः ॥१३०॥
। इति पण्डिलदेवषिमतामणिझ्यावर्णिते हीरसौभाग्यनाम्नि महाकाव्ये हीरविजयबरिचरिते बादशानां संख्यापूरणो द्वादशः सर्गः अभवबभूव ॥