________________
सर्ग १२ श्लो० १२४-१२५]
हीरसौभाग्यम्
३२५
यद्वैजयन्त्या सितिमश्रिया स्व-पाथोधिपत्नी गमिता विगानम् । निम्न व्रजन्ती त्रपयासिताब्जः श्यामीकृतास्येव जडाशयासीत् ॥ १२४ ॥
यस्या वस्तुपालवसतेवैजयन्त्या पताकया का सितिमश्रिया स्वश्वैत्यस्य लक्ष्म्या साधनेन कृत्वा स्वः स्वर्गस्य पाथोधेः समुद्रस्य पत्नी जाया एतावता स्वर्गगङ्गा सा विगान वचनीयतां धिक्कारभाव गमिता संप्रापिता सती । उत्प्रेक्ष्यते-जडाशया किंकर्तव्यतायां विमूढमानसा आसीद्बभूवुरिव । किं कुर्वन्ती । त्रपया स्वहृदयान्तरुदमन्दाक्षेण निम्न नीचैर्मन्द मन्द वा वज्रन्ती गच्छन्ती । पुनः किंभूता । असिताजः नीलोत्पलैः कृत्वा श्यामीकृतास्या कृष्णं विहित मुख यया । यो लज्जितः कथंचिल्स्यात्स निम्न' मन्द प्रचलति । श्यामानन: किंकर्तव्यानभिज्ञः स्यादेव ॥
શ્લેકાર્થ
આ પ્રાસાદની પતાકાની શ્રત લક્ષ્મીથી પરાભવ પામેલી આકાશગંગા, લજજાથી મંદ મંદ ચાલતી નીલકમલાથી શ્યામમુખવાલી બનેલી જાણે જલાશય રૂપે બની ગઈ ! અર્થાત્ કિંકર્તવ્યમુઢ બની ગઈ. ૧૨૪ .
तं रैवता/धरवत्पवित्रीचिकीर्षयेवाव॒दमभ्युपेतम् । निरीक्ष्य तस्मिन्नयनाभिराम ननाम शैवैयजिनं यतीन्द्रः ॥ १२५ ॥
यतीन्द्रः सूरिस्तस्मिन् वस्तुपालविहारे शिवायाः समुद्रविजयराजपत्न्याः अपत्यं पुत्रः शैवेयः स चासौ जिनश्च तीर्थ करस्त श्रीनेमिनाथ ननाम प्रणमति स्म । किं कृत्या निरीक्ष्य स्वलोचनगोचरीकृत्य अर्थान्नेमिनाथम् । किं भूतम् । नयनयोरभिराम हृदयनयनयोर्हारिणम् । पुनः किंलक्षणं तम् । व्यावर्णितस्वरूपमबुदचलमभ्युपेतं समागतम् । उत्प्रेक्ष्यते-पवित्रीचिकीर्ष या पावनीकर्तुमिच्छयेव । किंवत् । रैवतोर्वीधरवत् । यथा उज्जयन्तपर्वतः पूर्व पावनीकृतस्तथनमपीत्यर्थः ॥ इति वस्तुपालवसतिवर्णनम् ॥
પ્લેકાર્થ
આચાર્યો વસ્તુપાલ વિહારમાં સિતારાણીના નયનાનન્દ અંગજાત ભગવાન શ્રી નેમિનાથને જોઈને નમસ્કાર કર્યા, જેમ પૂર્વે રેવતાચલ (ગીરનાર) ને પવિત્ર કે તેમ અબુદાચલને પવિત્ર કરવા માટે જાણે સાક્ષાત ભગવાન અહીં પધાર્યા ન હોય! | ૧૨૫