________________
३२४
हीरसौभाग्यम् [सर्ग १२ श्लो० १२२-१२३
असूयता शुभ्रिमविभ्रमाय युयुत्सु यच्चैत्यमचण्डभासा । विमति विद्वेषिजिगीषयताममोघशक्तिं किमु दण्डदम्भात् ॥ १२२ ॥
यञ्चैत्यं वस्तुपालकारितप्रासादः विद्वेषिणां वैभवेन स्वस्पर्धिनां जिगीषया पराभवितु मिच्छया । उत्प्रेक्ष्यते-दण्डस्य ध्वजनियन्त्रणयष्टेर्दम्भात्कपटात् एतां प्रत्यक्षाममोघां क्वापि न निष्फलीभवन्ती शक्तिमायुधविशेष लोहमयीं 'सांगि'नाम्ना प्रसिद्धां बिभर्ति दधतीव । किं कर्तुमिच्छुः । चैत्य युयुत्सु योदधुमिच्छु । केन । अचण्डमासा चन्द्रभासा सम किं कुर्वता चन्द्रेण । अस्यता ईया कुर्वता । केन । शुभ्रिमविभ्रमाय स्वश्वत्यशोभायै । 'क्रुधदुहेासूयार्थानां य प्रति कोपः । क्रुधाद्यर्थानां योगे य प्रति कोपः स संप्रदानसंज्ञः । इति चतुर्थी विभ्रमायेत्यत्र' इति प्रक्रियाकौमुद्याम् ॥
શ્લોકાથ
પિતાની ઉજજવલ લક્ષ્મીની સાથે સ્પર્ધા કરતા ચન્ટે યુદ્ધ કરવાની ઈચ્છાથી આ જિનમંદિર ઉપર જાણે ધ્વજાદંડના હાને શત્રુને જય કરવા માટેની અમેઘ શકિતને ધારણ કરી ન હોય ! ૧૨૨ .
यच्चान्द्रचैत्योपरि शातकौम्भः कुम्भो विभूषां बिभरांबभूव । मुधासरःसंभ्रमतः समेतो रथाङ्गनामा किमु रन्तुकामः ॥१२३॥
यदेव चन्द्रकान्तमणीप्रणीतप्रासादस्तत्तुल्यो विहारस्तस्य शातकौम्भः स्वर्णमयः करणः कलशो विभूषां शोभां बिभरांबभूव । उत्प्रेक्ष्यते-सुधासरसः पीयूषपूर्णषद्माकरस्य संभ्रमतो धिया समेतः समागतः रन्तुं जलादिक्रीडां कर्तु कामोऽभिलाषो यस्य तादृशो रथाङ्गनामा चक्रवाक इव ॥
શ્લેકાર્થ
ચંદ્રકાંત મણિસમાન ઉજજવલ જિનપ્રાસાદની ઉપર સુવર્ણને કલશ શોભાને ધારણ કરતું હતું, તે જાણે સુધા સરેવરની ભ્રાન્તિથી તેમાં જલક્રીડા કરવા માટે ચક્રવાક આવેલ ન હોય ! ૧૨૩ છે