________________
सर्ग १२ श्लो० १२०-१२१]
हीरसौभाग्यम्
चुचुम्बेऽम्बरं यन्महामण्डपेन जगन्नेत्रजैवात्रिकेणात्ममूर्धा । किमु स्नातुमाकाङ्क्षता स्वर्वहायाः प्रवाहे विहायोमणीतापितेन ॥ १२० ॥
यस्या वस्तुपालवसतेमहान सर्वातिशायी यो मण्डपस्तेनात्ममूर्धा स्वमस्तकेन कृत्वा अम्बरमाकाशं चुचुम्बे पस्पृशे । आलिङ्गति स्मेत्यर्थः किं भूतेन जगतां जगज्जनानां नेत्राणामालादकरणविधौ जैवात्रिकेण चन्द्रेण । उत्प्रेक्ष्यते-विहायसो व्योनो मणी रत्न मास्वान् तेन तापितेन तप्तीकृतसर्वाङ्गेण सता स्वर्वहाया गगनगङ्गायाः प्रवाहे पयःपूरे स्नातुमाप्लवितुमाकाङ्क्षता किमु वाञ्छतेव ॥
શ્લોકાર્થ
જગતના જીવને આહ્લાદ આપવામાં ચન્દ્રસમાન વસ્તુપાલમંત્રીના જિનમંદિરને સર્વોત્કૃષ્ટ મંડપ પિતાના મસ્તકથી આકાશને સ્પશીને રહ્યો છે ! અર્થાત રંગમંડપ ગગનચુંબી હતો. સૂર્યના તાપથી તપેલ મંડપ જાણે આકાશગંગાના પ્રવાહમાં નાન કરવાની ઇચ્છાથી ઊંચે ગયો ન હોય ! છે ૧૨૦
बिभाव्य थत्राद्भुतशालिभञ्जीराजीस्त्रिलोकीयुवतीर्जयन्तीः । सुरैर्मरुद्योबतरूपशिल्पी स्म कल्प्यते कारुरिवानधीतिः ॥ १२१॥
यत्र वस्तुपालवसतौ सुरैर्देवैर्मरुतां त्रिदशानां यौवतस्य युवतीसमूहस्य । देवाङ्गनागणस्येत्यर्थः । रुपस्य वपुरामणीयकस्य शिल्पी रचनाकारकः न विद्यते सम्यक् शिल्पकलाया अधीतिरध्ययन यस्य सोऽनधीतिः कारुः नीचजातिशिल्पी निकृष्टशिल्पी च कल्प्यते स्म विचार्यते स्म । किं कृत्वा । यत्र वस्तुपालवसतौ त्रिलोक्या भुवनत्रयस्य युवतीस्तर णीर्जयन्तीः पराभवन्तीः अदभुता अतिप्रकृष्टा जगदाश्चर्यकारिणीर्वा शालिभजीराजीः पाञ्चालिकामालिकाः विभाव्य व्यालोक्य ।।
શ્લેકાર્થ
વસ્તુપાલ-વસહીમાં ત્રણે જગતની સ્ત્રીઓનું સૌંદર્ય જીતનારી અને જગતને આશ્ચર્યકારી પુતળીઓને જોઈને દેએ દેવાંગનાઓને સમૂહ બનાવનારા શિષ્ણને અભણ અને નીચ જાતિને શિલ્પી મા ! ! ૧૨૧ છે