________________
३१६
हीरसौभाग्यम् [ सर्ग १२ श्लो० १०९-११०
विवेश वशिनामीशो गर्भगेहे जिनौकसः । स्तम्बेरमीविवोढेव गहरे विन्ध्यभूभृतः ॥ १०९ ॥
वशिनां जितेन्द्रियाणां योगिनां साधूनामीशो नायकः सरिर्जिनौकस: वृषभदेवगृहस्य । प्रासादस्येत्यर्थः । गर्भगेहे गर्भागारे विवेश प्रविशति स्म । क इव । स्तम्बेरमीविवोढेव । यथा स्तम्बेरम्या हस्तिन्या विवोढा पतिर्हस्ती । 'विवोढा रमणो भोक्ता' इति हैम्याम् । विन्ध्यभूभृतो जलबालकाचलस्य गह्वरे विविधजातिनिबिडविनिद्रद्रुमक्षोणी दु:प्रवेशविपिने प्रविशति । 'गौरीगुरोर्गहरमाविवेश' इति रघौ । 'बहुवृक्षावृत' वन' गह्वरम् इति तद्वृत्तिः । तथा 'गह्वरो विलदम्भयेोः । कुजेऽथ' इत्यनेकार्थः ॥
શ્લાકા
જેમ ગજેન્દ્ર વિંધ્યાચલની ગુફામાં પ્રવેશ કરે તેમ આચાર્ચે જિનમંદિરમાં પ્રવેશ કર્યાં. ।। ૧૦૯ ॥
जातोऽक्षलक्ष्मा भगवानदर्शि सूरीन्दुना संमदमेदुरेण । जगन्महानन्दपदं निनीषुः स्वयं ततः किं कृपयावतीर्णः ॥ ११० ॥
संमदैस्तीर्थारोहणचैत्यप्रतिमा निरीक्षणोद्भूतामन्दानन्दैमे दुरेण पुष्टाङ्गेन सरीन्दुना मुनीन्द्रचन्द्रेण जातोऽक्षलक्ष्मा वृषभलाञ्छनो भगवान् श्रीवृषभदेवः अदर्शि नयनविषयं तः । निरीक्षित इत्यर्थः । उत्प्रेक्ष्यते—– जगद्विश्वजगज्जनमित्यर्थः । महान् सर्वोत्कृष्टतम आनन्दः प्रमोदो उतरी कृत्वा मोक्षस्तस्य पद स्थानम् । मुक्तिनगरीमित्यर्थः । निनीषुः प्रापयितुमिच्छुः । ततो महानन्दपदात्स्वयमात्मना कृपया संसारासारवासेऽतिसीदतां भविकलोकानामुपर्यनुकम्पया अवतीर्ण इहागत इव ॥
શ્લેાકા
હુ થી રામાંચિત બનેલા હીરવિજયસૂરિએ ઋષભદેવ ભગવાનનાં દર્શન કર્યાં. તે પ્રભુ જાણે સંસારના તાપથી તપેલા જગતને એકાંત સુખરૂપ મુકિતનગરીમાં લઈ જવા માટે કરૂણાથી રવય' અહીં આવીને રહ્યા ન હાય ! ।। ૧૧૦ ॥