________________
सर्ग १२ श्लो० १११-११२]
हीरसौभाग्यम्
३१७
अपि प्रपन्नो भुवने धुरीणतां पुनस्तदीयस्पृहयेव निवृतौ । शीलन्तमङ्कच्छलतः क्रमाम्बुजं जिनस्य जातोक्षमवैक्षत प्रभुः ॥ १११ ॥
प्रभुः सरिर्जातोक्ष ककुद्मन्स वृषभवक्षत । किं कुर्वन्तम् । अङ्कस्य लाञ्छनस्य छलतः कपटात् जिनस्यार्थादादिदेवस्य क्रमाम्बुज चरणारविन्द शीलन्त सेवमानम् । उत्प्रेक्ष्यते-भुवने भूमीलोके धुरीणतां धुरंधरत्व प्रपन्नः प्राप्तोऽपि स्वर्गपातालयोर्लोकयोदे. वदानवेषु सुरटुमैंः सुधामिश्च कृत्वा तृप्ति विदधानेषु यतः स्वर्गे कल्पवृक्षा सुधा च पाताले च नव सुधाकुण्डानि । यदुक्तं पञ्चमीस्तुतौ--'यात्वा देवाधिदेवागमदशमसुधाकुण्डमानन्दहेतुः- इति । दशमसुधाकुण्डं जैनागम इत्यर्थः । नव तु पातालस्थानि । ततः क्षेत्राणां कृषीणां चाभावावृषभाणामप्यभावः ततः पुनर्निवृतौ मोक्षक्षेत्रे । यदुक्तं जिनशतके 'मोक्षक्षेत्राभिकाङ्क्षाक्षपितशुभशताक्षेमविक्षेपदक्षाः' इति । मोक्षरूपं यत्क्षेत्र तत्र धुरीणताया धौरेयभावस्य स्पृहया वाञ्छयेव ॥
લોકાથ
આચાર્યો લાંછનના બહાને ભગવાનનાં ચરણકમલની સેવા કરતા વૃષભને જે, તે જાણે ભૂલકનું ધુરીપણું પ્રાપ્ત થવા છતાં પણ (સ્વર્ગલેક કલ્પવૃક્ષોથી અને પાતાલ લેક નવ સુશ્વન કુંડથી તૃપ્ત થાય છે, તેથી ત્યાં ક્ષેત્રને અભાવ હેવાથી વૃષભને પણ અભાવ છે; માટે) ફરીથી મેક્ષરૂપી ક્ષેત્રમાં ધુરીપણાની પૃહાથી વૃષભ જાણે ભગવંત ઉપાસના કરતે ન હેય ! ! ૧૧૧ માં
पायं पायं बिभोर्वक्रविधौ लबणिमागृतम् । तदुद्गारैरिवास्तावि स स्तवैरिति सूरिणा ॥ ११२ ॥
सरिणा इत्यमुना प्रकारेण अग्रे वक्ष्यमाणेन स आदिदेवः स्तवैर्नवस्तुतिभिः अस्तावि संस्तूयते स्म । उत्प्रेक्ष्यते-तस्यामृतस्योद्गारैरिव । किं कृत्वा । विभोः ऋषभदेवस्य वक्र विधौ वदनचन्द्र लवणिमा लावण्य सुषमामेवामृतं सुधारसमतिशायिभक्तिमत्तया पायं पायं वारं वारं पीत्वा पीत्वा आस्वाद्य । सादरमवलोक्येत्यर्थः । पौनःपुन्ये णमपदं विश्व इति सूत्रेण णमलप्रत्ययः । प्रत्ययसहितस्यैव धातोविर्भाव'चति पायं पायं सिद्धम् ॥