________________
सर्ग १२ श्लो० १०७ - १०८ ] सौभाग्यम्
चैत्यस्य परितो देवकुलिकाः पश्यति स्म सः । अर्बुदाद्रिश्रियाश्चूडाभरणस्येव सूक्तकाः ॥ १०७ ॥
सरित्यस्य विमलवसतेः परितश्चतुर्दिक्षु सर्वतो वा देवकुलिका लघुदेवगृहान पश्यति स्म प्रदक्षिणाप्रदानावसरे दृष्टवानित्यर्थः । उत्प्रेक्ष्यते - अर्बुदनाम्नोऽद्रेः पर्वतस्य श्रिया लक्ष्म्याश्चूडायाः शिखाया आभरणस्य विभूषणस्य चूडामणेरित्यर्थः । लोके 'वाक' इति प्रसिद्धस्य मुक्तिका लघुमुक्तिकाफलानीव । 'सिता वमन्तः खलुः कीर्तिमुक्तिकाः' इति नैषधे । 'मुक्तिका लघूनि मौक्तिकानि' इति तद्वृत्तिः ॥
શ્લેાકાથ
३१५
આચાર્ય ચૈત્યની પ્રદક્ષિણામાં ચારે દિશામાં દેવકુલિકાઓ જોઈ, તે જાણે અબુદાચલની લક્ષ્મીના ચૂડામિણ નામના આભૂષણનાં મૌતિકા ન હોય ! ॥ ૧૦૭ u
चैत्यं प्रदक्षिणीचक्रे समं संवेन स प्रभुः । ज्योतिषां मण्डलेनेव मन्दरं कोमुदीपतिः || १०८ ॥
स प्रभुहरविजयस्ररिः संघेन साधुसाध्वीश्राद्धश्राद्धीबर्गेण सम सार्धं चैत्य मूलप्रासादं प्रदक्षिणचक्रे । त्रिर्वारं प्रदक्षिणां प्रददिवानित्यर्थः । कौमुदीपतिरिव यथा चन्द्रमा ज्योतिषां ग्रहनक्षत्रतारकाणां मण्डलेन कदम्बकेन साकं मन्दरं मेरुपर्वतं प्रदक्षिणयति । जैनमते मन्दरो मेरुः । यदुक्तं स्नातस्यास्तुतौ — 'येषां मन्दररत्नशैलशिखरे जन्माभिषेकः कृतः इति । सर्वेषां तीर्थकृतां जन्माभिषेकस्थानं मेरुरेवातोऽत्र मन्दरः सुवर्णाचलः । आगमेऽपि 'मंदरस्स पश्वयस्स' इत्यादि । परशासने कविसमये च मन्दर इन्द्रकीलपर्वतः मेरोः पृथक् दृश्यते, परं त्वत्र जैनमतानुसार्येव मन्दरो मेरुरिति वचनम् ॥ इति विमल सतिमध्यवर्णनम् ॥
શ્લેાકાથ
જેમ ચંદ્ર જયોતિષ મ`ડલ ( ગ્રહ નક્ષત્ર તારાએ ) ની સાથે મેરૂપવ તને પ્રદક્ષિણા આપે તેમ હીરવિજયસૂરિએ સંધની સાથે ચૈત્યને પ્રદક્ષિણા આપી, ॥ ૧૦૮ ॥