________________
सर्ग १२ श्लो ० १०३-१०५ ] हीरसौभाग्यम्
३१३
શ્લોકાઈ
જિનપ્રાસાદમાં રહેલી પુતળીઓને જોઈને દેવાંગનાએ બ્રહ્માને પિતાની રૂપલક્ષમીને ચેર તરીકે માનતી હતી ! અથવા તે સુરાંગનાઓની સમગ્ર રૂપલક્ષમીને હરીને જાણે વિધાતાએ આ પુતળીઓ બનાવી ન હોય ! એ ૧૦૩ છે
चण्डरुक्किरणमण्डलस्मयं खण्डयन्समवलोकि सूरिणा । मण्डपो विमलकीर्तिनर्तकीनर्तनाय नवरङ्गभूरिव ॥ १०४ ॥
सुरिणा मण्डपोऽर्थाच्चैत्यमध्यवर्ती बहुजनाश्रयः समवलोकि सम्यगवधानदानपूर्वक वीक्षितः । देवभवनवैचित्र्यवीक्षणे संयमिनामपि न कश्चिद्दोषः । यतस्तत्र धर्मबुद्धरुखोधात् । मण्डपः किं कुर्वन् । चण्डरुचः सूर्यस्य किरण रश्मिभिर्भण्डितस्य मण्डलस्य बिम्बस्य स्मयमहंकारं खण्डयन् शकलीकुर्वन् । उत्प्रेक्ष्यते-विमलमन्त्रिणः कीर्तिरेव नर्तकी नृत्यकारिका पात्र तस्या नर्तनाय ताण्डवविधानाय नवा नबीना । अथ वा 'णु स्तुतौ' । नवन नवः नवस्य स्तुतेोग्या मध्यपदलोपे रङ्गभूमिर्नर्तनस्थानक्षोणिरिव ॥
શ્લોકાર્થ
આચાર્યે જિનપ્રાસાદની મધ્યમાં રહેલે સૂર્યમંડલના ગર્વનું ખંડન કરતે રંગમંડપ છેતે જાણે વિમલશાહમંત્રીની કીર્તિરૂપી નર્તકીને નૃત્ય કરવા માટેની २ भूमि न य ! ॥ १०४ ।।
वैजयन्तं विजेतुं विभूपाभरैर्वज्ररोचिःस्फुरच्चापचक्रायुधः ।
यः स्वश्रृङ्गेण गर्वादिवो गाहिना गन्तुमुच्चैय॑वस्यन्निवोर्जस्वलः ॥ १०५॥ यो मण्डपो विभूषाभरैः स्वशोभातिशयैः वैजयन्तमिन्द्रप्रासादं विजेतु पराभवितु दिवो गगनमार्गस्य गाहिना अवगाहनशीलेन । अभ्रंलिहेनेत्यर्थः । स्वश्रृंङ्गेण निजशिखरेण गर्वादहंकारादुच्चैरुवं स्वलॊके गन्तु प्रयातु व्यवस्यन्व्यवसायमुद्योगं कुर्वन्निव । किंभूतो मण्डपः । ऊर्जस्वलः स्फूर्तिमान प्रबलबलवान्वा । पुनः किंभृतः । वज्राणां वनमणीनां
हि० सौ०४०